________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीः। विश्वगुणादर्शचम्पू: पदार्थचन्द्रिकाटीकया समेता।
उपोडातः १. श्रीराजीवाक्षवक्षःस्थलनिलयरमाहस्तवास्तव्यलोल
ल्लीलाजान्निप्पतन्ती मधुरमधुझरी नाभिपद्मे मुरारेः ॥ अस्तोकं लोकमात्रा द्वियुगमुखशिशोराननेष्वर्ण्यमाणं शङ्खप्रान्तेन दिव्यं पय इति विबुधैः शङ्कयमाना पुनातु ॥१॥ श्रीमद्ब्रह्म सनातनं श्रुतिनुतं ध्यानैकगम्यं सदा
सर्गाद्यस्य विधायकं त्रिजगतो मोदावहं यत्सदा ॥ सच्चिद्रपतया यदर्थनिचयं व्याप्नोति तेजोमयं
भूयात्तत्रिविधातिहारि जगतां श्रीवासुदेवाभिधम् ॥ १॥ नमामि देवी कुलदेवतामहं ब्रह्मादिदेवैरभिसंस्तुतां मुहुः ॥ महादेलग्रामकृताधिवासां महालसाख्यां प्रकृतिं गुणात्मिकाम् ॥ २ ॥ यत्सूक्तिधारासुनिषेचनेन मद्धीलता पल्लविता बभूव ॥ स्मरामि तं श्रीगुरुवेङ्कटौख्यं विनम्रमूर्धा कृतहस्तसंपुटः ॥ ३ ॥
श्रीगणेशं च पितरं विद्वांसं खःस्थितं भजे,॥ अवस्थां मातरं चैव जयन्ती जननप्रदाम् ॥ ४ ॥ गुरुप्रसादसंलब्धव्याकृतिज्ञाव कौशलः ॥
काव्यं विश्वगुणादर्श व्याकरोमि यथामति ॥ ५ ॥ अथ तत्रभवान् श्रीवेङ्कटाध्वरिनामा कविः प्रारिप्सितग्रन्थस्य निर्विघ्नपरिसमा. प्तिमभिलिप्सुः शिष्टाचारप्राप्तं मङ्गलं तच्च "आशीर्नमस्किया वस्तुनिदेशो वापि तन्मुखम्" इत्युक्तत्वादत्र आशीरूपमाचरन् प्राह-श्रीराजीवति । सा मधुरमधुझरी मधुरा मधुनः मकरन्दस्य धारा, अस्मान् सर्वानिति शेषः । पुनातु पवित्रीकरोतु । कीदृशी मधुझरी । श्रीमतो ( राजीवे कमले इव अक्षिणी यस्य तस्य ) राजीवाक्षस्य विष्णोः । “बहुव्रीहौ सक्थ्यक्ष्णो:-" इत्यादिना समासान्तः षन् । वक्षःस्थले निलय आश्लिष्य स्थितिर्यस्यास्तस्या रमाया लक्ष्म्याः "क्षीरोदतनया रमा” इत्य
१ निःसरन्ती', 'निःश्रवन्ती'. २ 'महाडदळ' इति महाराष्ट्रभाषायां प्रसिद्धः, ३ सांगलीस्थव्याकरणपाठशालाध्यापकाः.
For Private And Personal Use Only