________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [उपोद्घातकाञ्चीमण्डलमण्डनस्य मखिनः कर्नाटभूभृद्रो
स्तातार्यस्य दिगन्तकान्तयशसो य भागिनेयं विदुः ॥ मरः । हस्ते वास्तव्यं वर्तमानं यत् लोलत् चलत् लीलाब्जं विलासाथै कमलं तस्मात् । श्रीभगवतो हृदये प्रेम्णा परिरभ्य स्थिताया लक्ष्म्याः करस्थलीलाकमला. दित्यर्थः । मुरारेर्विष्णोर्नाभिपद्मे निष्पतन्ती निर्गलन्ती, पाठान्तरे तु निःस्रवन्ती स्यन्द. माना । उत्प्रेक्षते । द्वे युगे युग्मे चत्वारीत्यर्थः । “युगं युग्मे कृतादिषु" इत्यमरः । मुखानि यस्य स चासौ शिशुश्च तस्य । ब्रह्मण इति यावत् । आननेषु मुखेषु “आननं लपनं मुखम्" इत्यमरः। लोकमात्रा लक्ष्म्या का "इन्दिरा लोकमता मा" इत्यमरः। शङ्खप्रान्तेन करणेन, अर्घ्यमाणं प्रेम्णा समर्प्यमाणं, अस्तोकं बहुलं दिवि भवं दिव्यं स्वयं "तत्र भवः' इति यत् । पयः अमृतं, इति विबुधैः देवैः "देवात्रिदशा विबुधाः सुराः" इत्यमरः । शङ्कयमाना संभाव्यमाना । मधुझरीति संबन्धः। श्रीविष्णोर्वक्षसि प्रेमाश्लेषेण स्थिता लक्ष्मीः कमलं लीलया भ्रामयामास, तस्माद्लन्ती मधुधारा भगवन्नाभिकमलं प्रति संगता,तां च दृष्ट्वा लक्ष्मीःप्रेम्णा निजबालकं शङ्खाओणामृतमेव पाययतीति स्तावकैर्देवैरुत्प्रेक्षितमिति भावः । अत्र लक्ष्मीकरस्थपद्मात् स्रवन्त्यां मधुधारायां दिव्यपयसः संभावनादुत्प्रेक्षालंकारः। तदुक्तम्-“संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्"इति । ननूत्प्रेक्षायामपि संभाव्य-संभावनयोरुपमानोपमेयभाव आवश्यकः स चात्र मुरारेर्नाभिकमलस्य ब्रह्मण आननस्य च यद्यपि संभवति, तथापि लक्ष्मीहस्तस्थपद्मस्य शङ्खस्य च न संभवति । शङ्खस्यैकतो यत्किचिन्मुकुलीभावत्वादेकतश्च विकासशालित्वात् (शङ्खो हि उपरितनभागे प्रसृतः अधोभागे च संकुचितो वर्तते) इति चेत्, श्रीराजीवाक्ष इत्यस्य चन्द्रसूर्याक्ष इत्यर्थः । स यथा-"इरा भू-वाक्-सुराप्सु स्यात्" इत्यमरात् इराशब्दस्य भूवाचकत्वं, तस्य च स्थानवाचकतापि संभवति, तेन श्रियो लक्ष्म्याः इरा स्थानं श्रीरा कमलं, तां आजीवयति विकासयतीति श्रीराजीवः सूर्यः, तथैव 'इरा भू-' इत्यनेनैव कोशेन इराशब्दस्य जलवाचकत्वमपि संभवति, ततश्च इराया जलात् आजीवति उत्पद्यते इति इराजीवश्चन्द्रः, ततश्च श्रीराजीवश्च श्रीराजीवश्च श्रीराजीवौ चन्द्रसूर्यौ “सरूपाणामेकशेषः-" इत्येकशेषः । तौ अक्षिणी यस्य स श्रीराजीवाक्षः । एवं च लक्ष्म्याः करस्थितपद्मस्य एकतश्चन्द्रकिरणसंपर्कादन्यतः सूर्यकिरणसंपर्काच्च मुकुलितत्वं विकासशालित्वं च संभवति, तेन शङ्खस्य पद्मस्य चोपमानोपमेयभावः संभवतीति ज्ञेयम् । स्रग्धरा वृत्तमेतत् "म्रभर्यानां त्रयेण त्रि-मुनि-यतियुता स्रग्धरा-" इति तल्लक्षणात् ॥ १ ॥
अधुना कविः स्वकीयकाव्यरचनासामर्थ्यप्रकटनाय पूर्वजप्रशंसापूर्वकं स्वस्य कोविदत्वं प्रपञ्चयंश्चिकीर्षितं ग्रन्थं प्रतिजानीते-काञ्चीति । काञ्चीमण्डलस्य काश्चीनगरीराष्ट्रस्य मण्डनः भूषणभूतः तस्य । खकीयविद्वत्त्वप्रभावेण काञ्चीराजधान्यां प्रसिद्धस्येति भावः । मखिनः प्रशस्तयज्ञकर्तुः । प्रशंसार्थेऽत्र मतुबर्थ इनिः । “भूम-निन्दा-प्रशंसासु" इत्याद्यक्तः । कर्नाटभभृतः कर्नाटदेशाधिपते
For Private And Personal Use Only