________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् १६] पदार्थचन्द्रिकाटीकासहिता ।
कृ०-किमरे वर्णयस्यचक्षुष्याणि मनुष्याणकवलनचपलचण्डपुण्डरीकाननानि काननानि ? ॥ ८३ ॥
इतस्तावावव्यतिकर इतः सन्त्यजगरा __ इतो लुण्टाकानां समुदय इतः कण्टकचयः ॥ इतो व्याघ्रा उग्रा ज्वलनजनका वेणव इतो ____वनं संलक्ष्यैतन्मन इदमहो मोहमयते ॥ २०८ ॥ वि०-सखे निपुणनिरूपणत एतेषां गुणानपि गृहाण ॥ ८४ ॥
अनायासग्राह्याण्यवनिपतिभोग्यान्यपि फला___ न्ययत्नेन प्राप्या नृपसुदृगपेक्ष्याः सुमनसः ॥ असूर्यपश्यान्यप्यहह सुलभान्यश्मभवना
न्यरण्यानीभाजामतिपतति भाग्यं किल गिरः ॥ २०९ ॥ किमिति । अरे भो विश्वावसो, मनुष्याणां अङ्गानां अवयवानां कवलने ग्रसने चपलानि लोलुपानि अत एव चण्डानि भयंकराणि पुण्डरीकाणां व्याघ्राणां "व्यानेऽपि पुण्डरीको ना" इत्यमरः । आननानि मुखानि येषु तानि । अत एवाचक्षुष्याणि अदर्शनीयानि, काननानि वनानि किं वर्णयसि ? ॥ ८३ ॥
अदर्शनीयत्वमेवाह-इत इति । इतः एकस्मिन्स्थले, तावत्साकल्येन सर्वत्रेत्यर्थः । ग्राव्णां पाषाणानां व्यतिकरः समूहः, इतः अन्यत्र अजगराः सन्ति, इतः तदि. तरत्र लुण्टाकानां चोराणां समुदयः, इतः कण्टकानां चयः समुदायः, इतः त. द्भिन्नस्थले, उग्रा भयंकरा व्याघ्राः, इतोऽन्यत्र ज्वलनजनकाः परस्परसंघर्षणेनाम्युत्पादकाः वेणवः कीचकाः, सन्तीत्यर्थः । एतदेव वचन विपरिणामेन यथायोग्यं सर्वत्र संयोजनीयम् । एवमेतद्वनं संलक्ष्य दृष्ट्वा, इदं मे मनः मोहं भयजन्यं भ्रमं, अयते प्राप्नोति ॥ २०८ ॥
सख इति । सखे हे मित्र, निपुणनिरूपणतः विचारयुक्तावलोकनं कृत्वेत्यर्थः । पञ्चम्यर्थे तसिल । सा च ल्यब्लोपे। एतेषां वनानां गुणानपि गृहाण, नतु केवलान् दोषानेव ॥ ८४ ॥
तान् गुणानेवाह-अनायासेति । अवनिपतिभी राजभिर्भोक्तुं योग्यानि नतु साधारणैर्जनैः अपि, फलानि आम्र-दाडिमादीनि,अत्र वने अनायासेन अयत्नेन ग्राह्याणि भवन्ति । तथा नृपसुदृग्भिः राजपत्नीभिरपि अपेक्ष्याः ईप्सितव्याः, किमुतान्याभिः, सुमनसः मालती-मल्लिकादीनां पुष्पाणि स्त्रियः सुमनसः पुष्पं" इत्यमरः। अयत्नेन प्राप्या लब्धुं शक्याः । तथा असूर्यपश्यानि सूर्य न पश्यन्तीति विग्रहः ।असमर्थसमासोऽयम्। "असूर्य-ललाटयोः-' इत्यादिना खश् । “अरुर्द्विषद-" इत्यादिना च मुमागमः ।
१ 'प्राप्यास्त्वपि सुदृगपेक्ष्याः'.
११
For Private And Personal Use Only