________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२, विश्वगुणादर्शचम्पू:- [घटिकाचलअपि चगहनगुहाविहारिहरिपाणिरुहाभिहत
द्विरदशिरस्तटोद्गलितमौक्तिकसंहतिभिः । अहह विभूषितैरिव चिरं विहरन्ति सुखं
सममबलाजनैरतिविलासपराः शबराः ॥ २१० ॥
अथ घटिकाचलवर्णनम् १७.
इति व्योमयानं दक्षिणतः प्रापयन् पुरतो निर्दिश्य
कण्ठोपरि कण्ठीरवशुचिदंष्ट्रारुचिविचित्रचन्द्रिकया ॥
स्फटिकाचल इव नयने घटिकाचल एष संप्रति धिनोति॥२११॥ अश्मनां पाषाणानां भवनानि गृहाणि सुलभानि यत्नं विनैव लभ्यानि सन्ति । अहहेत्यानन्दे । एवं सति अरण्यानीभाजां महारण्यसेविनां "इन्द्र-वरुण-भव-" इत्यादिसत्रेणानुगागमः ङीप् च विधीयते । सच "हिमारण्ययोर्महत्त्वे"इति वार्तिकेन महत्त्वविवक्षायामेव । “महारण्यमरण्यानी" इत्यमरश्च । भाग्यं दैवं गिरः वाणीः अतिपतति अतिक्रामति । वाण्या वर्णयितुमशक्यमिति भावः । किल निश्चयेन ॥ २०९ ॥
गहनेति । इह शेषाचले, गहनगुहासु वनस्थगुहासु, गहनेषु अरण्येषु गुहासु चेति वा । विहाँ क्रीडितुं शीलं येषां ते विहारिणः तादृशानां हरीणां सिंहानां पाणिरुहैः नखैः अभिहतानां विदारितानां द्विरदानां हस्तिनां शिरस्तटात् गण्डस्थलात् उद्गलि. तानि भूमौ निपतितानि यानि मौक्तिकानि तेषां संहतिभिः समूहैः, हारैरिति यावत् । विभूषितैरलंकृतैः अबलाजनैः स्त्रीजनैः समं सह, अतिविलासपराः भृशं क्रीडासक्ताः सन्तः, शबराः म्लेच्छविशेषाः सुखं यथा तथा, चिरं बहुकालं विहरन्ति क्रीडन्ति । अहहेत्यानन्दे । नर्दटकं वृत्तम् । “यदि भवतो नजौ भजजला गुरु नर्दटकम्" इति तल्लक्षणात् ॥ २१० ॥
अथ घटिकाचलवर्णनं प्रस्तौति-इतीति । निर्दिश्य अवलोक्य, सुगममन्यत् । कण्ठोपरीति । कण्ठस्य उपरि ऊर्ध्वभागे, कण्ठीरवस्य सिंहस्य “सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः । कण्ठीरवः" इत्यमरः । अर्थात् कण्ठपर्यन्तं मनुष्याकारस्य तदुपरि च सिंहाकारस्येति ज्ञेयम् । शुचीनां शुभ्राणां दंष्ट्राणां स्थूलदन्तानां या रुचिः कान्तिः सैव विचित्रा आश्चर्यावहा चन्द्रिका ज्योत्स्ना तया स्फटिकाचल इव स्फटिकमणिमयपर्वत इव, एष दृश्यमानो घटिकाचलः नृसिंह निवासः पर्वतः, संप्रति नयने नेत्रे, धिनोति प्रीणयति ॥ २११ ॥
१ गिरौ.
For Private And Personal Use Only