________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् १७ ]
सभक्तिप्रकर्षमञ्जलिं बद्धावरकेतुस्थतार्थ्याय स्मरकेलिपुषे श्रियः ॥ नरकेक्षणविघ्नाय नरकेसरिणे नमः ॥ २१२ ॥
किंच
पदार्थचन्द्रिकाटीकासहिता ।
स्थिरशङ्खादिचिह्नाय सुरसंघार्चिताये ॥ परसंहारदक्षाय नरसिंहाय मङ्गलम् ॥ २९३ ॥ जम्भदम्भहरक्षेमारम्भलम्भनमूर्तये ॥
१२३
शंभुसंभावनीयाय स्तम्भडिम्भाय मङ्गलम् || २१४ ॥ कु० - किमरे क्रोधमयेऽपि नरमृगेन्द्रे स्तववचनं विरचयसि ॥८५ प्रह्लादमाह्वादयितुं तमेकं सर्वस्य कुर्वन् भुवनस्य भीतिम् ॥ सैंहं दैधे संहननं पुरा यस्तव स्तवस्तत्र कथं प्रवृत्तः ॥ २१५ ॥
।
वरेति । वरे श्रेष्ठे तो ध्वजे तिष्ठतीति वरकेतुस्थः ताः गरुडः यस्य तस्मै, श्रियः लक्ष्म्याः स्मरकेलिपुषे मदनक्रीडावर्धनाय संभोगेच्छोत्पादकायेति यावत् । नरकस्य ईक्षणे अवलोकनेऽपि किमुत गमने, विघ्नाय प्रतिबन्धरूपाय । तद्भक्तानां नरकदर्शनमपि नैव भवतीति भावः । नरकेसरिणे श्रीनृसिंहाय नमः अस्तु ॥ २१२ ॥
,
स्थिरेति । स्थिराणि सर्वदा सन्ति शङ्खादिचिह्नानि शङ्ख-चक्राद्यायुधानि यस्मिन् तस्मै, सुराणां देवानां संधैः समुदायैः अर्चितौ पूजितौ अङ्गी चरणौ यस्य तस्मै, परेषां शत्रूणां संहारे विनाशे दक्षश्चतुरः समर्थो वा तस्मै, नरसिंहाय मङ्गलम् । अस्त्विति शेषः ॥ २१३ ॥
जम्भेति । जम्भस्य एतन्नाम्नो दैत्यस्य दम्भं गर्वे हरतीति तद्धरः, अर्थाज्जम्भदैत्यविनाशकः इन्द्रः, तस्य क्षेमस्य, दैत्य हृत स्वर्गस्थानस्य पुनः प्रापणरूपस्य कल्याणस्य आरम्भाणां उद्योगानां लम्भनं संपादनं यस्यास्तादृशी मूर्तिर्यस्य तथाभूताय । हिरण्यकशिपुविनाशेन तद्धृतं स्वर्गसाम्राज्यं पुनरिन्द्राय समर्पितमिति भावः । शंभो: शिवस्यापि संभावनीयाय मान्याय, स्तम्भस्य डिम्भाय बालकाय, स्तम्भादुत्पन्नायेत्यर्थः । मङ्गलम् ॥ २१४॥
किमिति । अरे हे विश्वावसो, क्रोधमये कोपप्रचुरेऽपि, प्राचुर्ये मयट् । नरमृगेन्द्रे नृसिंहे विषये, स्तववचनं स्तोत्र भाषणं, किं कुतो हेतोर्विरचयसि करोषि ? ॥ ८५ ॥
प्रह्लादमिति । यः नृसिंहः तं प्रसिद्धभक्तं, एकमेव प्रह्लादं हिरण्यकशिपुपुत्रं आह्लादयितुं संतोषयितुं सर्वस्य भुवनस्य लोकस्य भीतिं कुर्वन्नुत्पादयन् सन्, सैंहं सिंहसंबन्धि, संहननं शरीरं " गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ।" इत्यमरः ।
१ 'नरसिंहाय मङ्गलम्' २ 'लम्भक' ३ 'व्यधात्'.
For Private And Personal Use Only