________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४ विश्वगुणादर्शचम्पू:- [घटिकाचलवि०-वयस्य मैवं वादीः ।। ८६ ॥ यतःअपुण्यधौरेयहिरण्यदूनत्रिलोकशोकक्षपणाय शौरिः ।।
कायाधवायासनिरासदम्भः स्तम्भादिहोजृम्भत संभ्रमेण ॥ २१६ ।। इदं चावधार्यताम्
मनुष्यतिर्यक्त्वमुपेत्य नित्यो देवः स्वयं स्थावरतोऽभ्युदञ्चन् ।
विचित्रशक्त्यन्वयमत्र वेदैः प्रत्याय्यमानं प्रकटीकरोति ॥ २१७ ॥ पुनः सविश्रम्भम्घटिकाचलं वपुरवेक्ष्य तत्त्वतो घटिकाचलं समधिरुह्य भक्तितः ॥ नरकेसरीन्द्रचरणौ विलोकयन् नरके सरिष्यति न जातु मानवः॥२१८॥
पुरा कृतयुगे दधे धृतवान् । तत्र तस्मिन्विषये, तव त्वत्कृत इत्यर्थः । स्तवः स्तुतिः, कथं प्रवृत्तः ? ॥ २१५॥ .. वयस्येत्यादि सुलभम् ॥ ८६ ॥
अपुण्येति । न विद्यते पुण्यं सुकृतं येषु तेषां पापिनां धौरेयोऽग्रेसरः यः हिरण्यः हिरण्यकशिपुस्तेन दूनानां पीडितानां 'दु गतौ' इत्यस्मात् क्तप्रत्यये "दुग्वो. र्दीर्घश्च" इति वार्तिकेन निष्ठातकारस्य नो दीर्घश्च । त्रिलोकानां शोकस्य क्षपणाय विनाशं कर्तुम् । “तुमर्थाच्च भाववचनात्" इति चतुर्थी । शौरिः विष्णुः, कयाधोः हिरण्यकशिपुपत्न्याः अपत्यं कायाधवः प्रह्लादः तस्य आयासस्य पितृकृतनासस्य निरासो विनाश एव दम्भो निमित्तं यस्य तथाभूतः सन् , इह लोके स्तम्भात् संभ्रमेण त्वरया अजृम्भत प्रकटीबभूव । एतेन 'सर्वस्य भुवनस्य भीतिं कुर्वन्' इत्यादिदूषणं परास्तमिति ज्ञेयम् ॥ २१६ ॥
मनुष्यति । यः नित्यः सर्वदैकरूपः सन्नपि, देवः भक्तपालनार्थ विविधक्रीडाकारकः, मनुष्यश्चासौ तिर्यङ्च मनुष्यतिर्यङ् तस्य भावः नरसिंहरूपत्वमित्यर्थः । उपेत्य खीकृत्य, स्थावरतः स्तम्भात् न वितरवन्मातृतः । अभ्युदञ्चन् प्रकटीभवन् सन् , वेदैः प्रत्याय्यमानं वर्ण्यमान, विचित्रायाः इतरसुरदुष्करत्वेन अघटित घटनाकारित्वेन च आश्चर्योत्पादिकायाः शक्ते: सामर्थ्यस्य अन्वयं संबन्धं अत्र भूलोके प्रकटीकरोति आविष्करोति । वेदवर्णितं विविधं चरित्रं प्रत्यक्षतया प्रदर्शयतीत्यर्थः॥२१७॥
अत एवास्य स्थानस्यातिशयपुण्यसंपादकत्वमस्तीति द्योतयन्नाह-घटिकाचलमिति । घटिकाचलं घटिकाकालमात्रमप्यस्थिरं, विनश्वरमित्यर्थः । वपुः शरीरं, तत्त्वतः स्वभावादेवावेक्ष्य दृष्ट्वा ज्ञात्वेत्यर्थः । दृशिरत्र ज्ञानार्थकः । भक्तितः
१ दम्भात् स्तम्भादिहाजृम्भत'. २ 'सद्यो'. ३ 'रवेत्य'.
For Private And Personal Use Only