________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२५
-वर्णनम् १८] पदार्थचन्द्रिकाटीकासहिता।
___अथ वीक्षारण्यवर्णनम् १८.
इति विमानमन्यतः संचोदयन् सहर्षम्
वीक्षारण्यमिदं वदन्ति सरसी हृत्तापनाशिन्यसा__वस्या रोधसि वीरराघव इति प्रख्यातनामा हरिः ॥ व्यक्तं राजति वीतिहोत्र इव यो विस्तीर्णहेतिद्युतिः
क्षेत्रं प्राप्तकुशस्थलं प्रभजति श्रीशालिहोत्राञ्चितम् ॥२१९॥ आकलयतु भवानोमं चमत्कारम् ॥ ८७ ।। द्विरेफवर्णा सुमनोरमां तनुं बिभर्ति संज्ञामिव वीरराघवः ॥
सुपर्वराजेन यदीयमर्चितं मुखं पदद्वन्द्वमिवोपशोभते ॥ २२० ॥ घटिकाचलं पर्वतं अधिरुह्याऽऽरुह्य, नरकेसरीन्द्रचरणौ नरसिंहचरणौ, विलोकयन् अवलोकयन् 'लक्षणहेत्वोः-' इति हेतावत्र शता । मानवः जातु कदाचिदपि, नरके निरये न सरिष्यति नैव पतिष्यति । ' स गतौ ' इत्यस्माद् ॥ २१८ ॥
अथ वीक्षारण्यप्रस्तावमाह-इतीति । संचोदयन् गमयन्-..
वीक्षारण्यमिति । इदं पुरोदृश्यमानं वीक्षारण्यमेतनामकं वनं, वदन्ति कथयन्ति । जना इति शेषः । तथा असौ सरसी सरोवरं एतद्वनमध्ये वर्तमानेत्यर्थः । हृत्तापनाशिनी हृदयसंतापहारिणी विद्यते । अस्याः सरस्याः रोधसि तीरे, " कूलं रोधश्च तीरं च " इत्यमरः । वीरराघवः इति प्रख्यातं अतिपावनत्वेन प्रसिद्ध नाम यस्य तथाभूतः, व्यक्तं प्रत्यक्षं यथा तथा यः, विस्तीर्णा आसमन्तात् प्रसृता हेतीनां शङ्ख-चक्राद्यायुधानां शिखानां च युतिः कान्तिर्यस्य तथाभूतः, " रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः" इत्यमरः । वीतिहोत्र इव अग्निरिव “ अग्निवैश्वानरो वहिवातिहोत्रो धनंजयः । ” इत्यमरः । राजति शोभते । पुनश्च यो वीरराघवः, प्राप्तं कुशानां स्थलं स्थानं येन तत् , अत एव श्रीशालिहोत्रमुनिना अञ्चितमाश्रितं क्षेत्रं स्थानं प्रभजति सेवते । तत्र तिष्ठतीत्यर्थः ॥ २१९ ॥ ___ आकलयत्विति । अत्र वीक्षारण्ये, इमं पुरोदृश्यमानं चमत्कारं भवान् आकलयतु अवलोकयतु ॥ ८७ ॥
द्विरेफेति । वीरराघवो भगवान् , द्विरेफस्य भ्रमरस्येव वर्णो यस्याः सा तां श्यामवर्णामित्यर्थः । पक्षे द्वौ रेफवौँ रकाराक्षरे यस्यां तां, "द्विरेफ-पुष्पलिड्-भृङ्ग-षट्पद-भ्रमरालयः” इति “रवणे पुंसि रेफः स्यात्" इति चोभयत्राप्यमरः । सुमनस्सु सदाचरणेन शुद्धचित्तेषु, सुमनस्सु पुष्पेषु च रमते क्रीडति तां सुमनोरमां, "स्त्रियः सुमनसः पुष्पं" इत्यमरः । अत एव संज्ञा 'वीरराघव' इति नामेव "संज्ञा१ 'कुशस्थली'. २ 'मचित'.
For Private And Personal Use Only