________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
विश्वगुणादर्शचम्पू:- [वीक्षारण्यकृ०-वयस्य किं सन्नह्यसि वीरैराघवस्तवने ? यदस्मिन्नपि पन्नगनगनाथ इव परधनग्रह्णपरत्वादयः प्रादुःप्यन्ति दोषाः ॥ ८८ ॥
वि०-तत्रामदुक्तेनैव तत्समाधानेन पुनरत्रापि संतोष्टव्यमायुष्मता भवता । पामरमते रमते न कस्य मनो वीरराघवे देवे ? ॥ ८९ ॥
खेक्षोसाध्यजगज्जनिः सुतनुपल्लाक्षाङ्कितोरःस्थलः ___ साक्षादेष परः पुनान् कृतनुतिर्दाक्षायणीशादिभिः ।। वीक्षारण्यपतिर्विराजति गतिर्द्राक्षासदृक्साहिती
धी-क्षान्त्यायुररोगता-धन-यशो-मोक्षाद्यपेक्षावताम् ॥ २२१ ॥ स्याचेतना नाम" इत्यमरः । तनुं शरीरं विभर्ति । किंच यदीयं मुखं यदीयं पदद्वन्द्वमिव सुपर्वराजेन सुष्टु पर्वणि पूर्णिमायां राजते तेन चन्द्रेण, सुपर्वणां देवानां राज्ञा इन्द्रेण चेति क्रमेणोभयत्र योज्यम् । अचितं पूजितं । एकपदोपात्ततयाऽभेदाध्यवसायेन सुपर्वराजार्चितत्वस्य साधारणधर्मता बोध्या । उपशोभते ॥ २२० ॥
वयस्येति । हे वयस्य मित्र, वीरराघवस्तवने विषये, किं कुतो हेतो: संनह्यसि उद्युक्तो भवसि ? यत् यतः अस्मिन् वीरराघवेऽपि, पनगजगस्य शेषशैलस्य नाथः श्रीनिवासः तस्मिन्निव परधनग्रहणे परत्वं आसक्तत्वं तदादयः दोषाः प्रादुःप्यन्ति उद्भविष्यन्ति ॥ ८८ ॥ __ तत्रेति । तत्र दोषप्रादुर्भावे, अस्मदुक्तेनैव पूर्व मया कथितेनैव तत्समाधानेन शेषाचलाधिपतिसमाधानेन, पुनरत्रापि संतोष्टव्यमायुष्मता भवता । पामरमते हे क्षुद्रबुद्धे, वीरराघवे देवे, कस्य पुरुषस्य मनः न रमते आसक्तं न भवति ? अपि तु सर्वस्यापि रमते इत्यर्थः ॥ ८९ ॥
स्वक्षेति । स्वस्य ईक्षया पर्यालोचनेन साध्या कर्तुं शक्या जगतो जनिः सृष्टिर्यस्य सः । एतेन “ स ऐक्षत लोकानु मृजा इति " इलायैतरेयोपनिषच्छुतिः स्मारिता । अत्र ' जगज्जनिः' इत्युक्तिरुपलक्षणपरा । तेन स्थिति-संहारावपि शेयौ । सुतनोः लक्ष्म्याः पल्लाक्षया पदसंबन्धिलाक्षारसेन अङ्कितं चिह्नित उरःस्थलं वक्षःस्थलं यस्य सः । सर्वदा लक्ष्म्यास्तत्र विद्यमानत्वादित्यर्थः। किंच साक्षात् परः शरीर-वाङ्-मनो-बुद्धधहंकारादिसंघातेभ्यः परः पुमान् ,अत एव दाक्षायणीशः पार्वतीपतिः शिवः आदिः प्रमुखो येषु तैर्ब्रह्मेन्द्रादिभिः कृता नुतिः स्तुतिर्यस्य तथाभूतः। धीः बुद्धिश्च क्षान्तिः क्षमा च आयुर्जीवनकालश्च अरोगता आरोग्यं च धनं च यशश्च मोक्षश्च ते आदयो येषु तेषु अपेक्षावतामिच्छावतां द्राक्षया सदृशी सुखसेव्य. तयेति भावः । साहिती साहित्यमाराधनमिति यावत् । यस्याः तादृशी गतिरुपायः । अल्पमाराधितोऽपि सकलाभीष्टपूरक त्यइर्थः । वीक्षारण्यपतिवीरराघवाख्यः, विराजति शोभते ॥ २२१॥
१ 'वीरराघवे देवे स्तवनं विरचयितुं'. २ 'स्वेच्छा'. ३ 'देव'.
For Private And Personal Use Only