________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वणनम् १९] पदार्थचन्द्रिकाटीकासहिता । १२७ किंचउपेत्य वीक्षावनमुन्नतः सदा सुवर्णवल्लया सुमनःपुषाश्रितः ।। अहीनसेव्यो हरिचन्दनस्तनोत्युपाश्रितानामुचितां सुवासनाम् ॥ २२२ ॥
अथ श्रीरामानुजवर्णनम् १९.
इत्यन्यतो विमानं प्रेवयन्नग्रतो वीक्ष्य सप्रत्यभिज्ञम्एषा भूतपुरी निरीक्षितचरी दोषापहन्त्री मया
श्रीमानत्र गुणाब्धिराविरभवद्रामानुजार्यो मुनिः ॥ त्रय्यन्तामृतसिन्धुमन्थनभवद्धय्यंगवीनात्मकम् ।
विज्ञानं यदुपज्ञमेव विदुषामद्यापि विद्योतते ॥ २२३ ॥ उपेत्येति । सुष्ठ मनांसि येषां ते सुमनसः पण्डितास्तान , सुमनसः पुष्पाणि च पुष्णातीति तथा तया, अत एव सुष्ठ वर्णो यस्यास्तया वल्ल्या मल्लिकादिपुष्पवल्लयेति यावत् । पक्षे सुवर्णस्य वल्लीव वल्ली तया लक्ष्म्या आश्रितः सदा आलिङ्गितः, अहीनां सपीणां इनाः श्रेष्ठा महासर्पा इत्यर्थः । अहीनः सर्पस्वामी शेषश्च तेन, न हीना अहीनाः श्रेष्ठजनास्तैश्च सेव्यः सेवितुं योग्यः, हरिः, श्रीविष्णुरेव चन्दनः, हरिचन्दनो वृक्षश्च वीक्षावनं उपेत्य संप्राप्य, उन्नतः उच्चः श्रेष्ठश्च सन् , उपाश्रितानां भक्तानां उचितां योग्यां, सुवासनां मनोऽभिलषितं तनोति विस्तारयति ॥ २२२ ॥
इतीति । अन्यतो विमानं प्रेङयन् गमयन् , सप्रत्यभिज्ञं सानुस्मरणम्
एषेति । एषा पुरोदृश्यमाना, दोषाणां अपहन्त्री विनाशयित्री भूतपुरी 'श्रीपेरूम्बुरू' इति प्रसिद्धा, मया निरीक्षितचरी पूर्व अवलोकिता । “भूतपूर्वे चरट्" इति चरट् प्रत्ययः । टित्त्वान्डीयू । अत्र भूतपुर्या, गुणानां अब्धिः सागरः श्रीमान् रामानुजार्यो मुनिः, आविरभवत् प्रकटीवभूव । कीदृशः स रामानुजार्यः । त्रय्यन्ता उपनिषद्विद्या एव अमृतसिन्धुः क्षीरसागरः तस्य मन्थनेन विलोडनेन भवदुत्पद्यमानं यत् हय्यंगवीनं नवनीतं आत्मा स्वरूपं यस्य तत्तदात्मकम् । सर्वोपनिषदां सारभूतमिति तात्पर्यम् । विज्ञानं विशिष्टाद्वैतप्रतिपादकं शारीरकभाष्यं, यस्य रामानुजार्यस्य उपज्ञा आद्यज्ञान विषयः यदुपज्ञं 'उपज्ञोपक्रमं तदाद्याचिख्यासायाम्' इति नपुंसकत्वम् । रामानुजार्येणैव प्रथमं निर्मितमित्यर्थः । “उपज्ञा ज्ञानमाद्यं स्यात्" इत्यमरः । विदुषां पण्डितानां मध्ये अद्यापि विद्योतते प्रकाशते ॥ २२३ ॥
१ 'नृणां'. २ 'रामानुजाख्यो'.
For Private And Personal Use Only