________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८ विश्वगुणादर्शचम्पू:- [श्रीरामानुजकिंच
कामादिवैरिगणभीमानवद्यनिजनामाभिलाषगरिमा ... वैमानिकार्यसमभूमा मैतौ वचनसीमातिलविमहिमा ॥ श्रीमाननूनकलसोमाननो विमलधामावमानितरविः
क्षेमाणि जम्भयतु भूमावमुत्र च रामानुजो यतिपतिः ॥२२॥ अपि चस जयति रामानुजयतिरजयति परवादिनं यदीयोक्तिः संजयति बोधमनघं रञ्जयति बुधान् व्यथां च भञ्जयति ॥ २२५ ॥ अन्यच्च
ते मीमांसाशास्त्रप्रमथनपरिकलितबुधजनानन्दाः ॥ - लक्ष्मणमुनेः प्रबन्धा लक्ष्मणपूर्वजशरा इव जयन्ति ॥ २२६ ॥ कामादीति । कामः आदिः प्रथमो येषु क्रोध-लोभादिषु तेषां वैरिणां अन्त:शत्रूणां गणस्य समुदायस्य भीमः भयंकरः अनवद्यः निर्दोषः निजस्य स्खकीयस्य नाम्नः अभिलाषगरिमा इच्छाप्रभावः यस्य सः । यस्य नामग्रहणस्येच्छामात्रेणापि कामादीनां विनाशो भवति, किमुत प्रत्यक्षनामग्रहणे कृते इति तात्पर्यम् । तथा मतौ बुद्धौ विषये वैमानिकानां देवानामार्यः गुरुः बृहस्पतिः तेन समस्तुल्यः भूमा माहात्म्यं यस्य सः, अनूनाः संपूर्णाः कला यस्य तस्य सोमस्य चन्द्रस्येवाननं मुखं यस्य सः, किंच विमलधाम्ना स्वकीयनिर्मलप्रकाशेन अवमानितस्तिरस्कृतः रविः सूर्यो येन तथाभूतः, अत एव वचनानां सीमा मर्यादा तस्याः अतिलची उल्लङ्घनशील: महिमा माहात्म्यं यस्य सः श्रीमान् रामानुजो यतिपतिः, भूमौ भूलोके, अमुत्र परलोके च क्षेमाणि कल्याणानि जम्भयतु वर्धयतु । सर्वजनानामिति शेषः । अश्वधाटी वृत्तम् । अस लक्षणं वृत्तरत्नाकरे नैवोपलभ्यते । चित्रवृत्तेष्वस्यान्तर्भावः ॥२२४ ॥
स इति । स रामानुजयति यति सर्वोत्कर्षेण वर्तते । कथंभूतः सः । यदीया यस्य संबन्धिनी उक्तिः भाष्यरूपा, परवादिनं मतान्तरस्थवादिनं अजयति क्षेपयति तिरस्करोतीति यावत् । ' अज गति-क्षेपणयोः' इत्यस्य ण्यन्तस्य रूपम् । अथवा अजमिव छागमिव तुच्छीकरोति । एतत्पक्षे अजशब्दात् 'तत्करोति' इति णिच् । न केवलं तिरस्करोत्येव, किंतु अनघं निर्मलं बोधं ज्ञानं च संजयति उत्पादयति । बुधान् पण्डितांश्च रञ्जयति रमयति । तेषां व्यथां दुःखं च भञ्जयति विनाशयति ॥ २२५॥ .. ते इति । मीमांसाशास्त्रस्य प्रमथनेन आलोडनेन सर्वशास्त्रपर्यालोचनेनेति यावत् । पक्षे ते अमी मांसाशानां राक्षासानां अस्त्राणां शस्त्राणां प्रमथनेन विनाशनेन च परिकलितः उत्पादितः बुधजनानां पण्डितजनानां देवसमूहानां च आनन्दो यैस्ते,
१ 'अभिलापगरिमा'. २ 'अवनौ'.
For Private And Personal Use Only