________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [कर्णाटदेशपुनः सश्लाघम्अच्छैर्द्विजेन्द्ररमृताभिलाषादासेवितो भुव्यभिजातकीर्तिः ।। आनन्दतीर्थाह्वयमत्र कश्चिदन्वर्थयन्नाविरभून्मुनीन्द्रः ॥ १७६ ॥ कृ०-अस्तु तावदेवमथाप्यदसीयदर्शनानुवर्तिनामधुनातनानां द्विजानामपि बहव आकर्ण्यतामपचाराः ॥ ६६ ॥
सततमकृतसंध्योपास्तिरभ्यस्तशास्त्रः
सवितरि गतबाल्ये काल्यसंध्यामुपास्ते ॥ तदपि भुवि न मान्यं मन्यते धन्यमन्यम्
त्यजति विहितहानात्साध्वसं माध्वसंघः ॥ १७७ ।। काञ्चनस्य सुवर्णस्य श्रियं शोभा पक्षे कांचन अवर्णनीयां श्रियमिति च, वहते धारय. ति । एतन्महदद्भुतम् महदाश्चर्यम् । रजतस्य काञ्चनशोभाधारणत्वमत्यन्ताश्चर्यावहमिति भावः । कुतः इह रजतपीठपुरे वसन् वासं कुर्वन् , शुभां रीतिं आचारं आरकूटं च वहतीति तद्वहः " रीतिः स्त्रियामारकूटः" इत्यमरः । परमश्चासौ योगः समाधिः तेन, सार्वविभक्तिकस्तसिः। पक्षे परं अयसि लोहे गतः प्राप्त एवेति च । बुधः आनन्दतीर्थनामा ज्ञानी विराजते शोभते ॥ १७५ ॥ ___ अच्छैरिति । अच्छैः शुद्धान्तःकरणैः शुभैश्च द्विजेन्द्रैः ब्राह्मणश्रेष्ठैः पक्षिश्रेष्ठैः राजहंसादिभिश्च अमृतस्य मोक्षस्य जलस्य च अभिलाषात् इच्छायाः, हेतौ पञ्चमी। आसेवितः , भुवि अभिजाता कीर्तिर्यशः पङ्कश्च यस्य सः अत एव आनन्दतीर्थमिति आह्वयं नाम अन्वर्थयन् यथार्थ कुर्वन् , अत्र कश्चिन्मुनीन्द्रः आविरभूत् प्रकटो बभूव ॥ १७६ ॥
अस्त्विति । अस्तु तावदेवं त्वदुक्तप्रकार,अथापि अमुष्य आनन्दतीर्थस्य संबन्धि अदसीयं तच्च तद्दर्शनं शास्त्रं च तदनुवर्तिनां तदनुसारिणां अधुनातनानां, इदानींतनानां द्विजानां ब्राह्मणानामपि, आकर्ण्यतां बहवः न तु एकः, अपचाराः अनाचाराः ॥६६॥
सततमिति । मध्वस्य आनन्दतीर्थस्येमे माध्वाः तेषां संघः समुदायः, सततं निरन्तरं अकृता नाचरिता प्रातःकालविहितायाः संध्यायाः उपास्तिरनुष्ठानं येन तथाभूतः सन्नेव, अभ्यस्त शास्त्रः सन्नपि, न तु अज्ञः, सवितरि सूर्ये, गतं बाल्यं उदयावस्था यस्य तथाभूते सति, काले प्रातःकाले विहिता काल्या सा चासौ संध्या च तां उपास्ते । तथा च एतादृशसंध्यानुष्ठानं निष्फलमेव । “उत्तमा तारकोपेता मध्यमा लुप्ततारका । अधमा सूर्यसहिता प्रातःसंध्या त्रिधा स्मृता ॥” इति स्मृतेः । तदपि एवमनाचारं कुर्वन्नपि,भुवि अन्य मतान्तरस्थं मान्यं विद्वांसमपि, धन्य यथोक्तकर्मानुष्ठानादिना पुण्यवन्तं च न मन्यते । तस्य महत्त्वं नैव गणयतीत्यर्थः। अपि च
१'उच्चै'.
For Private And Personal Use Only