________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् १४] पदार्थचन्द्रिकाटीकासहिता । किंचगायत्री सहसा जहद्भगवतीं यज्ञोपवीतं त्यजन्
मुञ्चन् किंच शिखां विरक्त इव यः संप्राप्ततुर्याश्रमः ॥ आरूढश्चतुरन्तयानमभयो हा हन्त देशान्तरे
वर्थानामुपसंग्रहाय विचरत्येषोऽप्यमीषां गुरुः ॥ १७८ ॥ अहो महानेष व्यामोहो विदुषामपि कलिमाहात्म्यात् ॥ ६७ ॥ पश्ययस्य कापि विलोकने सवसनं स्नानं बुधैः स्मर्यते
यस्यान्नग्रहणे च निष्कृतितया चान्द्रायणं चोदितम् ॥ तस्य प्रत्युत वाहनस्थितयतेदृष्टिर्विमुक्तिप्रदा
तस्यान्नं च समस्तपापहृदिति प्रत्येति विद्वानपि ॥ १७९ ॥ विहितस्य काले संध्याद्यनुष्ठानस्य हानात् त्यागात् , साध्वसं पारलौकिकभयं च त्यजति । अर्थात् शास्त्रादिकमभ्यस्यापि नास्तिक इवाचरतीति तात्पर्यम् ॥ १७७ ॥
गायत्रीमिति । किंच यः सहसा अविवेकेन भगवती ज्ञानसंपादयित्री गायत्री गायत्रीजपं जहत् त्यक्त्वा, यज्ञोपवीतं च यजन् त्रोटयित्वेत्यर्थः । किंच शिखामपि मुञ्चन् उत्पाट्य, संप्राप्तः खीकृतः तुर्याश्रमः चतुर्थाश्रमः संन्यासाश्रम इत्यर्थः । विरक्त इव वस्तुतस्तु अविरक्त एव, चतुरन्तयानं चतुर्भिर्वाह्यं आन्दोलिकारूपमित्यर्थः । आरूढः सन् , अभयः लोक-शास्त्रभयरहितः, देशान्तरेषु अर्थानां द्रव्याणां उपसंग्रहाय विचरति परिभ्रमति । एषः एतादृशाचारभ्रष्टोऽपि, अमीषां माध्वानां गुरुर्भवति हाहन्तेति खेदे । वस्तुतः संन्यासिना विरक्तेन भाव्यं, विरक्तं प्रत्येव तस्य विधानात् । अयं माध्वसंन्यासी तु दम्भार्थमेव संन्यासाश्रमं स्वीकृत्य शिबिकामारुह्य द्रव्यमर्जयति राजादिवत् । एतेनाचरणेन विरक्तिस्तु नैव, परं विषयासक्तिरधिकं वर्धते । तेन चान्ते नरकपात एव स्यादिति भावः ॥ १७८ ॥
अहो इति । एष वक्ष्यमाणरूपः विदुषामपि व्यामोहो भ्रमः ॥ ६७ ॥
यस्येति । यस्य वाहनस्थितयतेः क्वापि यत्रकुत्रापि नतु विवक्षितस्थलविशेष एव, विलोकने दर्शने सति, बुधैः पण्डितैः सवसनं सचैलं स्नानं स्मर्यते । तच्चेत्थम्" वाहनस्थं यतिं दृष्ट्वा सचैलं स्नानमाचरेत्" इति । यस्य वाहनस्थयतेरेव अन्नग्रहणे अन्नस्वीकारे च सति, निष्कृतितया प्रायश्चित्तरूपेण " ब्रह्मचारि-यतीनां तु भुक्त्वः चान्द्रायणं चरेत् " इत्यादिस्मृत्या चान्द्रायणं शुक्लपक्षे प्रतिपद्दिनमारभ्य एकैकान. ग्रासवृद्ध्या, कृष्णपक्षे चैकैकग्रासहान्या च भोजनरूपं, चोदितमुक्तम् । तस्य प्रत्युत विरुद्धाचरणशीलस्येत्यर्थः । वाहने स्थितस्य यतेः संन्यासिनः दृष्टिदर्शनं विमुक्तिं प्रददातीति तथाभूता, तस्यानं च समस्तानि निखिलानि पापानि हरतीति हृत् इति विद्वानपि, न तु अविद्वानेव । प्रत्येति जानाति निश्चिनोतीत्यर्थः ॥ १७९ ॥
For Private And Personal Use Only