________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१०६
विश्वगुणादर्शचम्पू:
[ कर्णाटदेश
पश्य तावत्कलिकालनरपालस्य गृहस्थेषु प्रद्वेषं भिक्षुषु पक्षपातं च ॥ ६८ ॥ भिक्षां कष्टमन्ति कुक्षिभृतये पादौ गतैः क्लेशय
न्त्याच्छन्नाः शिथिलैः पटैश्च गृहिणो जीर्णे गृहे शेरते ॥
राजत्सूक्ष्मपटाः प्रशस्तशिबिकारूढा गृहिभ्योऽन्नदा ग्रावव्यूहहढे मठे स्थितिजुषो धन्या हि संन्यासिनः ॥ १८० ॥
अन्यच्च --
अनभ्यस्य वेदानही शास्त्रवादान् पठन्तः स्फुटं ये बतैतन्मतस्थाः ॥
अधीशाननादृत्य तद्धत्यपूजा
पराणां नराणां पदं ते भजन्ते ॥ १८९ ॥
पश्येति । तावत्कलिकालरूपस्य नरपालस्य राज्ञः गृहस्थेषु गृहस्थाश्रमिषु प्रद्वेषं, भिक्षुषु संन्यासिषु “भिक्षुः परिव्राट् कर्मन्दी पाराशर्यपि मस्करी" इत्यमरः । पक्षपातं च पश्य ॥ ६८ ॥
>>
भिक्षामिति । गृहिणी गृहस्थाश्रमिणः कुक्षिभृतये उदरपोषणार्थं भिक्षां भिक्षार्थं अटन्ति संचरन्ति । गतैः गमनैः पादौ क्लेशयन्ति च । शिथिलैर्जीर्णैः पटैर्वस्त्रश्चाच्छन्नाः सन्तः जीर्णे गृहे शेरते शयनं कुर्वन्ति निवसन्तीत्यर्थः । " शीङो स्ट्र इति झस्य रुडागमः । संन्यासिनो हि संन्यासिनस्तु गृहिभ्यो गृहस्थाश्रमिभ्योऽन्नदा अन्नप्रदातारः, भिक्षुभ्यो गृहस्थैरन्नं देयमिति हि वास्तवो धर्मः । राजन्तः शोभमानाः सूक्ष्माच पटा वस्त्राणि येषां ते तथाभूताः, बहिर्गमन वेलायामिति शेषः । प्रशस्तायां विस्तृतायां शिबिकायामान्दोलिकायां आरूढाश्च सन्तः, ग्राव्णां पाषाणानां पाषाण- प्रस्तरप्रावोपलाश्मानः शिला दृषत् " इत्यमरः । व्यूहैः समूहैः दृढे अभेमठे, स्थिति वासं जुषन्ति कुर्वन्तीति तथोक्ताः ते धन्याः । धन्यपदमेतन्निन्दायोतकम् ॥ १८० ॥
८८
अनभ्यस्येति । ये लोकाः वेदान् अनभ्यस्य वेदाभ्यासमकृत्वेत्यर्थः । अहो केवलं शास्त्रवादानेव पठन्तः सन्तः, एतन्मतस्था: माध्वमताभिमानिनः, वेदाध्ययनाभावे केवलं शास्त्राध्ययने दोषमाहुर्मन्वादयः । यथा - " योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ " इति । ते लोका: अधीशाननादृत्य तिरस्कृत्य तद्भृत्यपूजापराणां तेषां अधीशानां भृत्यपूजायां सेवक पूजायां परा आसतास्तेषां नराणां पदं स्थानं, स्फुटं स्पष्टं यथा तथा लभन्ते । बतेति खेदे । यथा तावत्प्रभुसेवामुपेक्ष्य तद्भृत्यसेवका निन्द्याः दण्डार्हाश्च भवन्ति, तथा एते माध्वा अपि निखिलपुरुषार्थसाधकं वेदमनादृत्य केवलं शास्त्रपठनपरा इहलोके निन्द्याः, लोके च तीक्ष्णयमयातनाभुज एवेति भावः ॥ १८१ ॥
पर
१ 'तक्तपूजापराणाम् .
>
For Private And Personal Use Only