________________
Shri Mahavir Jain Aradhana Kendra
-वर्णनम् १४ ]
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
पदार्थचन्द्रिका टीका सहिता ।
पुनः सविस्मयम् —
यः प्रभुर्यादवक्ष्माभृत्पुरस्कृत्या पुरा बभौ ॥
अधुना यादवक्ष्माभृदधेः कृत्या स भात्यहो ॥ १७२ ॥
सश्लाघम्
भूभृत्यस्मिन् पक्षिराजेन पूर्व श्वेतद्वीपादाहृतां श्वेतमृत्स्नाम् ॥ धन्या नित्यं धारयन्तो ललाटे मालीमस्यं मानसं निर्मृजन्ति ॥ १७३ ॥ किंच
१०३
विष्णुपद्याकलनया विश्रुतो विमलाशयः ॥
कासारोsa हरत्येनः कविः कंसारिभागिव ॥ १७४ ॥ इति विमानमितरत्र परिस्पन्दयन् सानन्दम्-रजतपीठपुरं ननु काञ्चनश्रियमिदं वहते महदद्भुतम् । इह वसन् शुभरीर्तिवहो बुधः परमयोगत एव विराजते ।। १७५ ।।
किंच य इति । यः प्रभुः नारायणः पुरा कृष्णावतारे यादवानां क्ष्माभृद्राजा उग्रसेनः तस्य पुरस्कृत्या राज्यप्रदानरूपपूजया, यादवानां तु ययातिशापात् राज्यासनानर्हत्व - मिति भावः । ययातेः शापप्रकारस्तु श्रीमद्भागवतस्य नवमस्कन्धतो ज्ञातव्यः । कृष्णेनोग्रसेनाय राज्यं कथं समर्पितमित्यपि भागवतदशमस्कन्धपूर्वार्द्धतोऽवगन्तव्यम् । भौ शुशुभे । स एव नारायणः अधुना सांप्रतं यादवक्ष्माभृतो यदुशैलस्य, अधःकृत्या अधोभागकरणेन भाति । अहो आश्चर्यमिदम् । श्लेषेण विरोधालंकारः॥ १७२॥ भूभृतीति । अस्मिन् भूभृति पर्वते “ भूभृद्भूमिधरे नृ इत्यमरः । पूर्वं कृतयुगे श्वेतद्वीपात्, पक्षिराजेन गरुडेन आहृतामानीताम्, श्वेतमृत्स्नां श्वेतमृत्तिकाम् गोपीचन्दनरूपाम् । मृत्सा मृत्स्ना च मृत्तिका " इत्यमरः । नित्यं ललाटे मस्तके तिलकरूपेण धारयन्तः अत एव धन्याः पुण्यवन्तः सन्तः, मालीमस्यं मलीमसमेव मालीमस्यं खार्थे ष्यञ् । मलिनमित्यर्थः । मानसं मनः 'मानसात्' इति पाठे मालीमस्य मलिनत्वमित्यर्थः । निर्मृजन्ति शोधयन्ति १७३ ॥
""
८८
विष्णुपद्येति । किंच विष्णुपद्याः गङ्गायाः " गङ्गा विष्णुपदी जह्वतनया" इत्यमरः । विष्णोः संबन्धिपद्यानां श्लोकानां आकलनया संगत्या रचनया च, विमल: निर्म-ल: आशयः अभिप्रायः स्थानं च यस्य सः, अत एव विश्रुतः प्रसिद्धः । कासारः सरोवरं, अत्र यदुशैले कंसारिं श्रीकृष्णं भजतीति कंसारिभाकू श्रीकृष्णभक्त इत्यर्थः । कविरिव एनः पापं हरति । उपमालंकारः ॥ १७४ ॥
इतीति । परिस्पन्दयन् गमयन् । सुगममन्यत् ।
रजतेति । रजतपीठं नाम पुरं नगरं ' सुवनूरु ' इति कर्णाटभाषानाम । इदं
१ ' अधः कृत्वा'. २ 'मानसान्नि', 'मानसे' ३ ' विस्तुतो'. ४ ' शुभरीतिर हो'.
For Private And Personal Use Only