________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [कर्णाटदेश'दुरितमवनतानां दुर्निरोधं निरुन्धन्
सितमतिभिरतन्द्रैः सेव्यमानो मुनीन्द्रैः ।। यदुगिरिरयमिन्धे यत्र नारायणात्मा
विलसति किल हर्ष नीलमेघः प्रवर्षन् ॥ १७० ॥ सभेत्त्युन्मेषम्.... यदुगिरितटागारा खाराजमौलिपरिस्फुर... मणिगणमहोधारानीराजिताभिसरोरुहा ॥
नवजलधराकारा नारायणाह्वयभूषिता
निरवधिदयासारा सा राजते परदेवता ॥ १७१ ।।
पदिनो धातोर्मायोगे लुङि आत्मनेपदे रूपम् ।“ अनित्यण्यन्ताक्षुरादयः " इति पक्षे णिजभावः । यत् यस्मात् अस्मिन् देशे यदुशैल: 'नारायणपुरम् ' इति भाषाप्रसिद्धः । प्रभृतिः प्रमुखो येषु तादृशानि दिव्यक्षेत्राणि दृश्यन्ते । अनेन दिव्यक्षेत्रस. त्वादेवायं देशो न दूषणीय इति सूचितम् ॥ ६५ ॥
दुरितमिति । अवनतानां भक्त्या नम्राणां दुनिरोधं नाशयितुमशक्यं, दुरितं पापं निरुन्धन् विनाशयन् , अतो हेतोरेव सितमतिभिः शुद्धबुद्धिभिः अतन्द्रः आलस्यरहितैश्च, मुनीन्द्रः सेव्यमानः सन् ,अयं यदुगिरिः यदुशैलः इन्द्धे प्रकाशते। यत्र यस्मिन् पर्वते नारायणात्मा भगवद्विष्णुरूपः नीलमेघः हर्षमानन्दं प्रवर्षन् सन्, वि. लसति किल शोभते । एतेन भगवतो मेघरूपवर्णनेन “मेघ-पर्वतयोरब्धि-चन्द्रयोदृष्टिरम्ययोः । शिखि-तोयदयोलॊके सिद्धा मैत्री खभावतः" इत्यौचिती प्रदर्शिता ॥ १७० ॥
यदुगिरीति । यदुगिरेस्तटं शिखरं अगारं निवासभवनं यस्याः सा "भवनागा. रमन्दिरम्" इत्यमरः खाराजस्य खर्गाधिपतेरिन्द्रस्य मौलौ मस्तके परिस्फुरन्तः प्रकाशमाना ये मणिगणा रत्नसमूहास्तेषां यानि महांसि तेजांसि तेषां धाराभिःपरंपराभिः नीराजिते प्रदीप्ते अभिसरोरुहे चरणकमले यस्याः सा । अर्थान्नमस्कारावसरे इति ज्ञेयम् । एतेनेन्द्रादयोऽप्येतद्दर्शनार्थमत्रागच्छन्तीत्यतोऽतिशयमाहात्म्यमस्य प. र्वतस्य सूचितम् । नवजलधरस्य नूतनमेघस्येवाकारो यस्याः सा, निरवधिनिःसीमा दयासारः कृपासामर्थ्य यस्याः सा, नारायण इत्याह्वयेन नाम्ना भूषिता एतादृशी सा परदेवता राजते शोभते ॥ १७१॥
१ 'दुर्निवारं'. २ 'अतन्त्रैः'. ३ निवसति'. ४ 'पुनःसविस्मयम्'. ५ 'मरकत'. ६ "निरुपम', 'निरुपधि'.
For Private And Personal Use Only