________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् १४] पदार्थचन्द्रिकाटीकासहिता । कृशानु:-हन्त कथमभिनन्दयसि निन्दनीयममुं देशम् ॥ ६३ ॥ तथाहि
वेद-वैदिक-विद्वेषदूषिता भस्मरूषिताः ।।
चण्डाः सन्त्यत्र पाखण्डा लिङ्गालिङ्गितवक्षसः ॥ १६८ ॥ आकर्णय तावदन्यदप्यमीषामपचरितम् ॥ ६४ ॥ . शिरः पुरारेर्द्विजराजपाददिव्यामृतैः सिक्तमितीर्ण्ययेव ॥ शूद्रा इमे लिङ्गधराः खयं तत्स्वपादतोयैः स्लपयन्ति कष्टम् ॥१६९॥ वि०-सखे मैवं संगदिष्ठाः । यदस्मिन्देशे यदुशैलप्रभृतीनि दिव्यक्षेत्राणि दृश्यन्ते ॥ ६५॥
हन्तेति । हन्त निन्दनीयं निन्दितुं योग्यं अमुं देशं, कथमभिनन्दयसि आनन्दयसि । एतद्दर्शनेन आनन्दं करोषीत्यर्थः ॥ ६३ ॥
वेदेति । वेदानां वैदिकानां च विद्वेषेण दूषिताः दोषयुक्ताः, भस्मना भूत्या "भूतिभसित-भस्मनि" इत्यमरः । रूषिताः विलिप्तशरीराः, अत एव चण्डाः भयंकराः कोपयुक्ता वा । पाखण्डाः वेदशास्त्रभ्रष्टाः, लिङ्गैः रूप्यमयैः आलिङ्गितानि वक्षांसि येषां तथाभूताः, अर्थात् ' लिङ्गाईत' इति महाराष्ट्रभाषाप्रसिद्धा लोकाः । एतेषां हि वक्षसि-लिङ्गधारणं कुलपरंपराप्राप्तम् । अत्र कर्णाटदेशे सन्ति ॥१६॥
आकर्णयेति । अपचरितम् दुराचारः । अन्यत्सुगमम् ॥ ६४ ॥ एते लोका हि खपादोदकेन शंकरमभिषिञ्चन्ति, अयमेव तेषां महाननाचारः इति सोत्प्रेक्षमाह-शिर इति । पुरारेः श्रीशंकरस्य शिरः द्विजराजस्य ब्राह्मणश्रेष्ठस्य पादयोः, द्विजराजश्चन्द्रः " द्विजराजः शशधरः" इत्यमरः । तस्य पादानां किरणानां च इति वा । किंवा द्विजस्य पक्षिण: अर्थात् गरुडस्य राजा अधिपतिर्विष्णुः तस्य पादसंबन्धीनि यानि दिव्यामृतानि गङ्गाजलानि तैः, पक्षे पीयूषैः,पक्षे शुद्धजलैरिति च । अत्र मुद्रितैकस्मिन्पुस्तके द्विजराजशब्दस्य ब्राह्मणश्रेष्ठ इत्यर्थान्तरं टीकाकारोक्तं टिप्पणीकारेण 'गङ्गायाः ब्राह्मणपादजलत्वेन कुत्रापि प्रसिद्ध्यभावात्' इति हेतु पुरस्कारेण खण्डितम् । परं च तेन टीका नैवसम्यगवलोकितेति प्रतिभाति । टीकायां 'द्विजराजपाददिव्यामृतैः' इत्येतद्धटकदिव्यामृतशब्दस्य दिव्यजलैरित्येवार्थः कृतः, नतु गङ्गाजलैरिति । किंच 'ईर्ष्णयेव' इत्युत्प्रेक्षाखारस्यार्थ तादृशार्थकरणमेव युक्ततरम् । न हि तावत् चन्द्रेण सह तेषामा संभवति । नापि विष्णुना सह । शैवमताभिमानिनस्ते श्रीविष्णुं मा भजन्तु, परंतु न तस्मै ईय॑न्ति । तादृशसामर्थ्याभावात् । इति ममाभिप्रेतम् । अत्रापि युक्तायुक्तविवेचनं विद्वदधीनम् । सिक्तं अभिषिकं इती. य॑यैव अक्षमयैवेत्युत्प्रेक्षा । “अक्षान्तिरीासूया तु" इत्यमरः । इमे शूद्राः अनेन तेषामनधिकारिवं द्योतितम् । स्वयं लिङ्गधराश्च सन्तः तत् शिवशिरः खपादतोयैः स्वकीयचरणोदकैः स्नपयन्ति अभिषिञ्चन्ति । कष्टम् अन्याय्यम् ॥ १६९॥
सख इस्यादि । मैवं संगदिष्ठाः मा वद । 'गदी देवशब्दे' इति चौरादेरुभय१ 'मैवं वादीः', 'मैवं सङ्गिरिष्ठाः'.
For Private And Personal Use Only