________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
विश्वगुणादर्शचम्पू:- [कर्णाटदेशअथ कर्णाटदेशवर्णनम् १४.
इति व्योमयानमन्यतः स्पन्दयन्नग्रतो दृष्ट्वा सप्रत्यभिज्ञम्कर्णाटदेशो यः पूर्व कर्णदेशमभूषयत् ॥
स एष साम्प्रतं पश्य चक्षुषोभूषणायते ॥१६५ ॥ लोचनासेचनकं किल देशस्यास्य रामणीयकम् ॥ ६२ ॥
युग्मकम्प्रतिनगरमिहारामाः प्रत्यारामं पचेलिमाः क्रमुकाः ॥ प्रसवाः प्रतिक्रमुकमप्युत्सर्पति मधुततिः प्रतिप्रसवम् ॥ १६६॥ प्रतिमधुबिन्दु मिलिन्दाः प्रेडन्ति प्रतिमिलिन्दमारावाः ॥ प्रत्यारावं सुदृशां मदा उदाराः प्रतिमदं मदनः ॥ १६७ ॥
अथ कर्णाटदेशवर्णनप्रस्तावार्थमाह-इतीति । व्योमयानं विमानं अत्यन्तः स्पन्द. यन् गमयन् , अग्रतः अग्रभागे दृष्ट्वा, प्रत्यभिज्ञा पुरोवर्तिनि पूर्वज्ञानविषयाभेदावगाहि ज्ञानं तत्सहितं यथा तथा । प्राहेतिशेषः।
कर्णाटेति । यः कर्णाटो नाम देशः पूर्व कर्णदेशं धोत्रभागं, अभूषत् अलंकृ. तवान् श्रुत इत्यर्थः । स एषः कर्णाटदेशः चक्षुषोभूषणायते अलंकारवदाचरति दृश्यत इति भावः । सांप्रतं इदानीं "एतर्हि संप्रतीदानीमधुना सांप्रतं तथा" इत्यमरः पश्य । तमिति शेषः ॥ १६५ ॥ - लोचनेति । अस्य कर्णाटनाम्नो देशस्य रामणीयकम् रमणीयत्वम् लोचनयोः नेत्रयोः आसेचनकं चिरं दर्शनेपि तृप्त्याजनकं । “तदासेनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्" इत्यमरः । किल निश्चयेन ॥ ६२ ॥
रामणीयकमेव युग्मकेनोपपादयति-प्रतिनगरमिति । इह कर्णाटदेशे नगरे नगरे इति प्रतिनगरम् । वीप्सायामव्ययीभावः । एवमग्रेऽपि । आरामाः उपवनानि । “ आरामः स्यादुपवनं " इत्यमरः । प्रत्यारामं प्रत्युपवनं च, वाक्यत्रयेऽपि विलसन्तीति योज्यम् । पचेलिमाः पाकाभिमुखाः, क्रमुकाः पूगवृक्षाः प्रतिक्रमुकं च प्रसवाः पुष्पाणि, “स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने" इत्यमरः । प्रति. प्रसवं च मधुनः मकरन्दस्य ततिः बिन्दुसमूहः, प्रतिमधुबिन्दु च मिलिन्दाः भ्रमराः प्रेडन्ति भ्रमन्ति । प्रतिमिलिन्दं प्रतिभ्रमरं च आरावा गुजरवाः भवन्तीति शेषः । प्रत्यारावं प्रतिगुञ्जारवं च सुदृशां स्त्रोणां उदाराः महान्तः, मदाः विलासाः प्रतिमदं च मदनः कामः, उद्भवतीत्यर्थः ॥ १६६ ॥ १६७ ॥
१ "द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः शोकैर्विशेषकम् । कालापकं चतुर्भिः स्यात् तदूर्व कुलकं स्मृतम् ।”. २ उत्सर्जति'.
For Private And Personal Use Only