________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् १३ ] पदार्थचन्द्रिकाटीकासहितां ।
९९ युद्धाय प्रमिलन्तु हन्त पटवो योधाः सहस्राधिका
यद्यकोऽपि बलात्तुरुष्क-यवनेष्वारूढघोटो भटः ॥ निस्त्रिंशं परिकम्पयन् वकटकान्निष्कामति क्रोधतः
सर्वे ते कृपणास्तृणान्यशरणा खादन्ति सीदन्ति च ॥१६३॥ किंच
पिबन्तु मदिराममी परितुदन्तु देशानहो __ हरन्तु परसुन्दरीरपलपन्तु वेदानपि ॥ तथापि च मृधाङ्गणे तृणवदेव मुक्त्वा तनुम्
हठाद्विदधते मरुत्पुरकपाटिकोद्धाटनम् ॥ १६४ ॥
अथापि एतेषु तुरुष्कयवनेषु तुरुष्कदेशीययवनजनेषु, अन्यसाधारणः इतरजनसदृशः न भवतीत्यनन्यसाधारणः स चासौ विक्रमः पराक्रमस्तद्रूपं अमुं गुणं गृहाण ॥६१॥
युद्धायेति । पटवः रणे समर्थाः सहस्रादधिकाः असंख्याताः योधाः तुरुष्क. यवनभिन्नजातीयाः योद्धारः, युद्धाय युद्धं कर्तुम् “ क्रियार्थोपपद-" इत्यादिना चतुर्थी । प्रमिलन्तु संगच्छन्ताम् । अतिसर्गे लोट् । हन्तेयाश्चर्ये तदा तुरुष्केषु यवनेषु मध्ये, निर्धारणे सप्तमी । एकोऽपि किमुत द्वित्रादयः । भटः योद्धा आरूढः घोटः अश्वः येन स तथोक्तः सन् , निस्त्रिंशं खङ्गं “तूण्यां खङ्गे तु निस्त्रिंश-चन्द्रहासासिरिष्टयः" इत्यमरः । परिकम्पयंश्च सन् स्वकटकात् स्वसैन्यात् , बलात् वेगात्, क्रोधतः क्रोधेन च निष्कामति निर्गच्छति यदि । तदा ते पूर्वोक्ताः सर्वे भटाः अशरणाः रक्षकरहिताः अत एव कृपणाः दीनाश्च सन्तः, तृणानि खादन्ति भक्षयन्ति, सीदन्ति विषण्णा भवन्ति च । तृणभक्षकान् वल्मीकारूढांश्च वीरास्त्यजन्तीति प्रसिद्धेरिति भावः ॥ १६३ ॥
पिबन्त्विति । यद्यपि अमी तुरुष्का यवनाश्च मदिरा मद्यं पिबन्तु, देशान् परितुदन्तु त्रासयन्तु, परेषां सुन्दरीः स्त्रियः हरन्तु, वेदान् तदुक्तकर्माणि अपलपन्तु दूषयन्तु ।अपिः समुच्चये । सर्वत्र अतिसर्गे लोट् । अतिसर्गः कामचारानुज्ञा । तथापि मृधाङ्गणे युद्धदेशे तनुं शरीरम् । चस्त्वर्थः । तृणमिव तृणवत् मुक्त्वा त्यक्त्वा, हठात् बलात् मरुतां देवानां पुरं खर्गस्तस्य कपाटिकायाः कपाटस्य उद्घाटनं विदधते कुर्वन्त्येव । भगवता श्रीकृष्णेनाप्येतदेवोक्तमर्जुनं प्रति-"हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम्” इति ॥ १६४ ॥
१ 'बहवो'. २ 'रणाङ्गणे'.
For Private And Personal Use Only