________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:-
[आन्ध्रदेश
प्रतिवसन्तमुपात्तमखाः सुखम्
प्रतिवसन्ति मुकुन्दपरायणाः ॥ १६० ॥ अत्रत्यानामधिकारव्यापारनिरतानामप्ययं खल्वकलको नियमः ॥ ५९॥
आश्रयितव्यो नरपतिराजयितव्यानि भूरिवित्तानि ॥ आरब्धव्यं वितरणमानेतव्यं यशो देशखपि दिशासु ॥ १६१ ॥ कृ०-समन्तादवलोक्यहन्त संततमत्यन्तदुरितनिरता यवना एव तावदमीषु विषयेषु प्राचुर्यतः पर्यटन्ति । पश्य सखे ॥ ६० ॥
अवनावतीतपवनाश्वशोभिनो भवनागशायिभवनावमर्दिनः ।। सवनादिधर्मलवनाय दीक्षिता यवनाश्वरन्ति भुवनातिभीषणाः॥१६२॥ वि०-सत्यमेवमथाप्येतेषु तुरुष्कयवनेष्वनन्यसाधारणविक्रमं गुणममुं गृहाण ॥ ६१ ॥
येषां ते तादृशाः, बहवः धरासुराः ब्राह्मणाः, अत्र गोदावरीतीरे वसन्ते वसन्त ऋतौ प्रतिवसन्तं, उपात्तमखाः कृतयज्ञाः सन्तः, सुखं यथा तथा प्रतिवसन्ति । "वसन्ते. वसन्ते ज्योतिषा यजेत" इत्यादिश्रुत्या वसन्तादिऋतुभेदेन यज्ञकर्म विहितम् ॥१६॥
किंच अत्रत्यानामिति । अत्रत्यानामधिकारव्यापारनिरतानां राजकीयकार्यतत्पराणामपि, अयं दृश्यमान: खलु अकलको निर्मल: नियमः व्रतनिष्ठा ॥ ५९ ॥
आश्रयितव्य इति । नरपतिः राजा आश्रयितव्यः, भूरीणि बहूनि “प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु । पुरुहूः पुरु भूयिष्ठं स्फारं भूयश्च भूरि च" इत्यमरः । वित्तानि धनानि आर्जयितव्यानि, वितरणं दानं आरब्धव्यं कर्तव्यं यशः दशदिशासु आनेतव्यं प्रापयितव्यं च । इति नियम इति संबन्धः ॥ १६१ ॥
हन्तेति । हन्तेति खेदे । संततं निरन्तरं अत्यन्ते दुरिते देव-ब्राह्मणद्रोहरूपे महापापकर्मणि निरता आसक्ताः यवना म्लेच्छ जातीया एव तावदमीषु विषयेषु आन्ध्रदेशेषु, प्राचुर्यतः बाहुल्येन पर्यटन्ति परिभ्रमन्ति ॥ ६ ॥
अवनाविति । अतीतः वेगेन निर्जितः पवनः वायुः यैस्तरैश्वैः शोभन्त इति शोभिनः । भवस्य शिवस्य, नागशायिनः विष्णोश्च, भवनानां आलयानां अवमर्दिनः पातयितारः । सवनादीनां यज्ञप्रमुखानां धर्माणां वर्णाश्रमधर्माणां, लवनाय नाशाय दीक्षिताः कृतनिश्चयाः, अत एव भुवनस्य लोकस्य अतिभीषणाः यवनाः म्लेच्छाः, अवनौ आन्ध्रदेशभूमौ सर्वत्र चरन्ति ॥ १६२ ॥ सत्यमिति । सत्यमेव 'भव-नागशायि.' इत्यादिना प्रतिपादितं दूषणं अस्त्येव,
१ धर्मनिरतानाम्'. २ 'भूपति'. ३ 'दशापि दिशः'.
For Private And Personal Use Only