________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ११ ]
पदार्थचन्द्रिकाटीका सहिता ।
कृ० - कृतं सखे चोर - जारेशिखामणेः कृष्णस्य जगदतिसंधातुर
नुसंधानेन ! ॥ ४० ॥ तथाहि
लुण्ठित्वा नवनीतमन्यसदने लोलेक्षणो भक्षयन्
गोपीभिः परिगृह्ये मातृसविधं नीतो मुकुन्दस्तया ॥ 'लुण्ठीर्मा नवनीतमित्यभिहितोऽप्येतद्यलुण्ठीः किमि' — त्युक्तो 'मानवनीतमेव हृतमि' - त्यागो जनन्यां न्यधात् ॥ १२४॥ किंच
अंसे सलीलमधिरोप्य शुकं खहस्ता
गोप्या भयाकुलदृशः कुतुकी मुकुन्दः ॥
कृतमिति । हे सखे विश्वावसो, चोर-जारशिखामणेः चोराणां जाराणां चाग्रेसरस्येत्यर्थः । अत एव जगतः तत्स्थलोकस्य अतिसंधातुर्वञ्चयितुः । यद्वा जगतः अति अत्यन्तं संधानं उत्पत्तिः पालनं च अतिसंधानं लयश्च तत्रितयकर्तुः, अनुसंधानेन संस्तवनेन कृतं अलं पर्याप्तमित्यर्थः । पक्षे कृतं त्वयैतच्छोभनं कृतमिति वार्थः । “कृतं युगेऽलमर्थे स्याद्विहिते हिंसिते त्रिषु" इति मेदिनीकोशात् कृतमित्यस्यालमर्थत्वात् ॥ ४० ॥
तथेति । चोर-जार शिखामणित्वमेवोपपादयति
लुण्ठित्वेति । अयं मुकुन्दः श्रीकृष्णः अन्यसदने परकीयगृहे, नवनीतं लुण्ठिवा चोरयित्वा अत एव लोले चौर्यभयाच्चञ्चले ईक्षणे नयने यस्य तथाभूतः सन् भक्षयन् खादन्, अत एव च गोपीभिर्गोपस्त्रीभिः परिगृह्य कृष्णागमाप्रतीक्षया गूढं स्थित्वा नवनीतचौर्यसमये धृत्वेत्यर्थः । मातुर्यशोदायाः सविधं समीपं “समीपे निकटा - सन्न-संनिकृष्ट-सनीडवत् । सदेशाभ्याश - सविध" इत्यमरः । नीतः प्रापितः । तदेति शेषः । तया यशोदया 'नवनीतं मा लुण्ठीः मा चोरय,' इति पूर्वमिति शेषः । अभिहितः उक्तोऽपि, एतन्नवनीतं किं कुतो व्यलुण्ठी: अचूचुरः ?' इत्युक्तप्रकारेण उक्तः मात्रा पृष्टः सन् ‘मानवनीतमेव हृतं न तु नवनीतम्' नवनीतस्य मनुष्यकर्तृत्वादिति भावः । इत्युक्तप्रकारेण, आगोऽपराधं “ आगोऽपराधो मन्तुश्च इत्यमरः । जनन्यां मातरि यशोदायामेव न्यधात् स्थापितवान् । दधातेर्लुङि - "गाति-स्था-घु -" इति सिचो लुक् । श्लेषालंकारः ॥ १२४ ॥
I
असे इति । किंच अयं मुकुन्दः श्रीकृष्णः कुतकी कौतुकयुक्तः सन् भयेन कृष्णभीत्या आकुले दृशौ यस्यास्तस्याः कस्याश्चित् गोप्याः अंसे स्कन्धे “स्कन्धो भुजशिरोंऽसो स्त्री” इत्यमरः । लीलया क्रीडया सहितं सलीलं यथा स्यात्तथा स्वहस्तानि - जकरेण शुकं कीरं अधिरोप्य स्थापयित्वा पुनः ' असं स्कन्धं गतं शुकं पक्षे 'अं' २ 'परिकृष्य'.
१ 'चोर - जारशिरोमणे : '.
,
७९
For Private And Personal Use Only
99