________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [यमुनानदीअथ यमुनानदीवर्णनम् ११.
इत्यलं प्रसक्तानुप्रसक्त्येति दूरतो विमानमानयन् साञ्जलिबन्धम्कृष्णाश्लेषविशेषिताऽसितरुचे कालिन्दि तुभ्यं नमः । __ कुछेभ्यः श्रिततावकाम्बुकणिकापुञ्जेभ्य एषोऽञ्जलिः ।। गोपीभ्यः परिरिप्सया मुररिपोस्तेषु स्थिताभ्यो नति
थायाभिरुपासिताय च नमोवाकानधीयीमहि ॥ १२३ ॥
निरभिलाषभावं अभिनयेत् प्रकटयेत् । खकार्य च क्षितिभृति राज्ञि संतुष्टे सति रहस्येव एकान्ते एव कथयेत् । कदाचित् राज्ञा प्रत्यादिष्टेऽपि खावमानस्य गोप्यत्वादिति भावः । एतच्छोकद्वयं प्रकृतवर्णनस्यासंगतमिति भाति । किंच सन्नीतिप्रतिकूलमपि । यतो राज्ञः सभायां नयानुसारिभाषणस्यैवाभिरूपैरुक्कत्वात् । यथाहुर्मन्वादयः-"सभा वा न प्रवेष्टव्या वक्तव्यं वा समन्जसम् । अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी" इति । तदनेन प्रत्युक्तमिव भवतीति मदभिप्रेतम् । अत्र युक्तायुक्तविचारणा तु सर्वथा सुधीभिरेव करणीया ॥ १२२ ॥ __ अथ यमुनावर्णनमाक्षिपति-इतीति । इत्येवमुक्त्वा प्रसक्तस्य प्रकृतस्य गुर्जरदेशवर्णनस्य अनुप्रसक्त्या तत्रत्यपुरुषाणामुत्तमाधमत्वनिरूपणेन, अलं पर्याप्तं इत्युक्त्वा दूरतो दूर विमानमानयन् अञ्जलिबन्धेन करसंपुटेन सहितं तथा तथा प्राहेति।
कृष्णेति । हे कालिन्दि यमुने श्रीकृष्णाष्टनायिकानामन्यतमे च, कृष्णस्य य आश्लेषः जलविहाररूपः आलिङ्गन च तेन विशेषिता वर्द्धिता कृष्णवर्णा असिता रुकू . कान्तिर्यस्यास्तस्यै तुभ्यं नमः । तथा श्रिताः संलग्नाः तव इमे तावकास्त्वदीया इत्यर्थः । युष्मच्छब्दात् "तस्येदम्" इत्यर्थेऽणि "तवक-ममकावेकवचने” इति तवकादेशः । अम्बुकणिकानां जलकणानां पुजा राशयो येषु तेभ्यः कुञ्जभ्यः लतागृहेम्यः " निकुञ्ज-कुञ्जौ वा क्लीबे लतादिपिहितोदरे " इत्यमरः । एषः मया क्रियमाणः अञ्जलि: नमस्काररूपः, अस्तु इति शेषः। अपि च मुरस्य मुरनामकदैत्यस्य रिपोः शत्रोः श्रीकृष्णस्य परिरिप्सया आलिङ्गनेच्छया, परिपूर्वकाद्रभेः सन्नन्तादकारप्रत्ययः। “सनि मी-मा-घु-रभ-लभ" इत्यादिना इसादेशः । तेषु कुजेषु स्थिताभ्यः गोपीभ्यः नतिर्नमस्कारः। किंच आभिर्गोपस्त्रीभिः उपासिताय पूजिताय नाथाय श्रीकृष्णाय, नमोवाकान् नमस्कारोक्तीः अधीयीमहि पुनः पुनरुचारयामः 'इङ् अध्ययने' इत्यस्मादधिपूर्वात् विधिलिङयुत्तमपुरुषबहुवचनम् ॥ १२३ ॥
१ 'सानन्दम्' इत्यधिकः पाठः कचिदृश्यते. २ परिलिप्सया'.
For Private And Personal Use Only