________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् १०] पदार्थचन्द्रिकाटीकासहिता ।
9
इदं चावधीयताम् ॥ ३८ ॥इच्छेद्यस्तु सुखं निवस्तुमवनौ गच्छेत्स राज्ञः सभाम्
कल्याणी गिरमेव संसदि वदेत्कार्य विदध्यात्कृती ॥ अक्लेशाद्धनमर्जयेदधिपतेरावर्जयेद्वल्लभान्
कुर्वीतोपकृतिं जनस्य जैनयेत् कस्यापि नापक्रियाम् ॥ १२१ ॥ अन्यच्चेदमवर्धार्यताम् ॥ ३९ ॥अयुक्तं युक्तं वा यदभिहितमज्ञेन विभुना __ स्तुयादेतन्नित्यं जडमपि गुरुं तस्य विनुयात् ॥ विवित्सुनॆःस्पृह्यं कथमपि सभायामभिनयेत्
खकार्य संतुष्टे क्षितिभृति रहस्येव कथयेत् ॥ १२२ ॥ सन्, गृहेष्वेव निद्राति निद्रित इव स्तब्धरूपतया तिष्ठति, स पुरुषः दरिद्राति दारिययुक्तो भवतीत्यर्थः ॥ १२० ॥
इदमिति । इदं च वक्ष्यमाणमप्यवधीयताम् सावधानतया श्रूयतामित्यर्थः॥३८॥ इच्छेदिति । यस्तु यश्च पुरुषः अवनौ पृथिव्यां सुखं यथा स्यात् तथा निवस्तुं वासं कर्तु इच्छेत् , सः कृती धन्यः पुरुषः राज्ञः सभां गच्छेत् , तत्र संसदि सभायां च कल्याणी समास्थितसर्वजनसुखकरीमेव, अथवा सकलजनरुच्युत्पादिकामेव गिरं वाणी वदेत् उच्चारयेत् । एवं कार्य खकीयं धनसंपादनरूपं विदध्यात् साधयेत् । कार्यचिकीर्षुणा जनेन न तावत्कुत्रापि कटुभाषणादिकं कर्तव्यं, तस्य च कार्यहानिकरत्वादिति भावः । एवंरीत्या अक्लेशात् राजपुरुषर्षणादिरूपक्लेशं विनैव धनमर्जयेत् संपादयेत् । किंच धनार्जने सत्यपि अधिपते राज्ञः वल्लभान् प्रियान् पुरुषान् आवर्जयेत् संतोषयेत् , न तु तुच्छबुद्ध्या तिरस्कुर्यात् । अपरं च उपकृतिमुपकारमेव कुर्यात् ,कस्थापि शत्रु-मित्रोदासीनाद्यन्यतरस्य जनस्य, अपक्रियामपकारं न जनयेत् नोत्पादयेत् ॥ १२१॥
अन्यदिति । अन्यच्चान्यदपि इदं वक्ष्यमाणमवधार्यतां निश्चीयताम् ॥ ३९ ॥ अयुक्तमिति । अज्ञेन बाह्यव्यवहारानभिज्ञेन संपत्त्युन्मत्तेन वा, विभुना राज्ञा अयुक्तं देशकालाद्यनुचितं, वाथवा युक्तं समयानुरूपं यदभिहितमुच्चारितं स्यात् , तदेतत् नित्यं संततं स्तुयात् प्रशंसेत् । किंच तस्य राज्ञः जडं बुद्धिहीनमपि गुरुं पुरोहितं विनुयात् स्तुयात्, तद्वारेणैव कार्यसाधनसंभवात् । किंच विवित्सुः खविषये अनुकूलप्रतिकूलादिरूपमभिप्रायं वेत्तुमिच्छुः सन् 'विद ज्ञाने' इत्यस्य सन्नन्तस्य रूपम् "सनाशंस-" इत्यादिना उप्रत्ययः। सभायां कथमपि निःस्पृहस्य भावो नैःस्पृह्य
१ 'अवधार्यता'. २ 'कार्येषु दद्यात्'. ३ 'समये'. ४ 'मवधारणीयम्'. ५ गिरा तं च विनुयात्'.
For Private And Personal Use Only