________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [यमुनानदी'असंगतं शुकमिहापनयेति' वाचम् ___ तस्या निशम्य स तदंशुकमाचकर्ष ॥ १२५॥ अपि चनीत्वा राधिकया निशां मुररिपुः प्रातहानागतस् ___ 'त्वं मा भूरपराधिकः पुनरिति प्रोक्तोऽपि पूर्व मया ॥ कस्मादेवमभूरिति' श्रितरुषा निर्सितो लीलया ____ 'त्वद्वाचैव सराधिकोऽहमिति' तां व्यामोहयन्मायया ॥ १२६ ॥
वि०-वयस्य मैवं वादीः स हि परमपावनः सकलजगदंहस्संहरणकृते कृतावतारो वन्दारुजनानन्दनो यदुनन्दनो निन्दापदवीदवीयान् ॥ ४१ ॥
इत्यक्षरेण संगतं शुकं- अंशुक वस्त्रं च इह सांप्रतं अपनय दूरीकुरु' इति तस्या गोप्याः वाचं निशम्य श्रुत्वा, तस्याः गोप्याः अंशुकं वस्त्रं, आचकर्ष अपहृतवान् ॥ १२५ ॥
नीत्वेति । अपि च राधिकया सह निशां रात्रि नीत्वा निशावसानपर्यन्तं तामुपभुज्येत्यर्थः । मुररिपुः श्रीकृष्णोऽयं प्रातः प्रातःकाले, गृहान् खगृहं “गृहाः पुंसि च . भूम्येव निकाय्य-निलयालयाः" इत्यमरात् गृहशब्दस्य पुंस्त्वं नित्यं बहुवचनत्वं च । आगतः प्राप्तः सन् , श्रिता प्राप्ता रुट क्रोधो यस्यास्तया यशोदयेति शेषः । त्वं अपराधः परगृहगमनादिरूपोऽस्यास्तीति अपराधी स एवापराधिकः अपराधकर्तेति यावत् । अपगता राधिका यस्मात्तथाभूतश्च, मा भूः इति एवं पूर्व मया प्रोक्तोऽपि, कथितोपि, पुनः एवमपराधिकः कस्मात् कारणात् अभूः जातोसि ?' इति लीलया बहिः क्रोधप्रदर्शनेऽपि मनसि पुत्रवात्सल्यरूपया। करणे तृतीया। निर्भसितः सकोधमधिक्षिप्तोऽपि, 'भो मातः । त्वद्वाचैव 'अपराधिको मा भूः' इति तव वाण्यैव अहं सराधिकः राधया सहितः जातः' इति तां मातरं यशोदां मायया तदुक्तार्थापह्नवरूपया, अघटितघटनापटीयस्या वा व्यामोहयत् मोहितवान् । अत्र 'लुण्ठित्वा नवनीत--' इत्यादिश्लोकत्रयेऽपि एकस्यैव वाक्यस्म श्लेषेणान्यार्थकरणादभङ्गश्लेषवक्रोक्तिरलंकारः । तदुक्तम्- “यदुक्तमन्यथा वाक्यमन्यथान्यन योज्यते । श्लेषेण काका वा ज्ञेया सा वक्रोकिस्तथा द्विधा" इति ॥ १२६ ॥ __एवं कृशानूक्तं दूषणं श्रुत्वा निर्विष्णो विश्वावसुराह-वयस्येति । हे वयस्य कृशानो एवं 'लुण्ठित्वा नवनीत-' इत्यादिप्रकारं दूषणं मा वादीः नोच्चारय । हि यस्मात् कारणात् परमपावनः अत्यन्तपवित्रः, अत एव सकलजगतः अंहसां पा. पानां संहरणकृते विनाशार्थ, कृतः धृतः अवतारो येन सःवन्दारून् स्तोतॄन् नमस्कर्तृन् वा 'वदि अभिवादन-स्तुत्योः' इत्यस्मात् "श-वन्योरारुः" इति आरुप्रत्य
१ 'रितः'.
२ 'कृतरुषा'.
३ 'नीलया'.
For Private And Personal Use Only