________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ११] पदार्थचन्द्रिकाटीकासहिता।
असत्क्षयार्थाभ्युदयस्य यस्य जगुश्चरित्रं जगतः पवित्रम् ॥ पुनः परस्मै पुरुषाय तस्मै समस्तनम्याय नमस्तनोमि ॥ १२७ ॥
अस्य खल्वत्यद्भुतं चारित्रमाकर्ण्यताम् ॥ ४२ ॥ चोरस्य चौर्य जगति प्रतीतं चौर्यस्य चौर्य न तु दृष्टपूर्वम् ॥ चौधिकार्याणि बतै श्रुतानि कृष्णस्य मुष्णन्तितमां तमांसि ॥ १२८ ॥
किंचचित्रं चित्रं जृम्भिते कृष्णमेघे कंसं प्राप्ता प्राप लोपं समृद्धिः ॥ आसीद्युक्तं हानिदाघप्रशान्तिहसो हिंसां मानसे कीर्तिरुत्था ॥ १२९ ॥ यः । 'वन्दारुरभिवादके' इत्यमरश्च । जनानानन्दयतीति तथाभूतः सः यदुनन्दनः श्रीकृष्णः, निन्दापदव्याः निन्दारूपमार्गस्य दवीयान् दूरे वर्तमानः अस्तीति शेषः । दवीयानित्यत्र दूरशब्दादीयसुनि "स्थूल-दूर-युव ह्रख-" इत्यादिना रकारलोपः। 'दू' इत्यस्य गुणादेशश्च ॥४१॥
निन्दापदवीदवीयस्त्वमेवोपपादयति-असदिति । असतां पापानां दैत्यादीनां क्षयो नाश एवार्थों मुख्यं प्रयोजनं यस्य तादृशः अभ्युदय उत्पत्तिर्यस्य तथाभूतस्य यस्य श्रीकृष्णस्य जगतः पवित्रं पावित्र्यावहं चरित्रं कंसवधादिरूपं न तु त्वदुपपादितं चौर्यादिरूपमेव, जगुः गायन्ति स्म । ज्ञानिन इति शेषः । तस्मै परस्मै देहेन्द्रियादिसंघात् परस्मै पुरुषाय, अत एव समस्तानां सकललोकानां नम्याय नमस्कर्तु योग्याय, पुनः नमः नमस्कारं तनोमि करोमि ॥ १२७ ॥
अस्येति । अस्य श्रीकृष्णस्य अत्यद्भुतमतीवाश्चर्यजनकं चारित्रमाकर्ण्यतां श्रूयतां खलु ॥ ४२ ॥
अत्यद्भुतत्वमेव विवृणोति-चोरस्येति । चोरस्य, कर्तरि षष्ठी। चोरकर्तृकमित्यर्थः । चौर्य कर्म जगति प्रतीतमनुभूतं प्रसिद्ध वा । परंतु चौर्यस्य अत्रापि पूर्ववदेव षष्ठी । चौथै चोरकर्म तु, दृष्टपूर्वं पूर्व दृष्टं न । इदमुपलक्षणम् । तेन श्रुतपूर्वमपि नेत्यर्थः । परं च कृष्णस्य चौर्य नवनीतादेः आद्यं प्रधानं येषु तानि कार्याणि गोवर्धनोद्धरणादीनि, श्रुतानि आकर्णितानि सन्ति, तमांसि पापानि मुष्णन्तितमामतिश. येन चोरयन्ति । अत्रातिशयार्थे तमप् । ततश्च "किमेत्तिडव्यय-" इत्यादिना आमुः। बतेत्याश्चर्ये ॥ १२८॥
चित्रमिति । कृष्ण एव मेघस्तस्मिन् पक्षे कृष्णे नीलवर्णे मेघे इति च, जृम्भिते उत्पन्ने सति, हानिदस्य लोकविनाशकरस्य अघनाम्नोदैत्यस्य प्रशान्ति शः, पक्षे 'हा' इत्यानन्दे । निदाघस्य ग्रीष्मऋतोश्व शान्तिः प्रशमः "ग्रीष्म उम्मकः । निदाघ उष्णोपगमः" इत्यमरः । आसीत् । तथा हसो बकासुरः पक्षे हंसः पक्षी च, हिंसां नाशं धा
१ 'समस्तरम्याय'. २ 'अद्भुतं चरितम्', 'अद्भुतं चारित्र्यम् ,' 'अद्भुतं चरित्रम्'. ३ प्रसिद्धम्'. ४ 'चौर्याणि कार्याणि,' 'चोर्यादिकार्याणि'. ५ 'नृणां'.
For Private And Personal Use Only