________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [काशीसर्वतो दृष्टिं प्रसार्य सश्लाघम्आक्रान्तासु वसुंधरासु यवनैरासेतुहैमाचलम्
विद्राणे क्षितिभृद्गणे विकरुणे निद्राति नारायणे ॥ निर्विघ्नप्रसरे कलावपि बलान्निष्कण्टकं वैदिकम्
पन्थानं किल तत्र तत्र परिपात्येको हि लोकोत्तरः ॥ ९७ ॥ पुनः सश्लाघम्
अत एव ते ब्राह्मणान् , तद्धर्मान् , तद्देवताश्च अंशयन्ति नाशयन्ति च । तस्मादेत कायस्थादय एव तत्सेवाखीकरणेन जनपदरक्षणाद्यधिकारं लब्ध्वा देवभूसुरादीन् पान्तीति । अत एव ते कृतिनः धन्याः। ते च शस्त्रधारणादिसेवां विनैव गृहेषु आसते तिष्ठन्ति चेत्, यद्वा गृहेषु उदासीना भवेयुश्चेत्, तदा भुवि भूमौ प्राज्ञैः पण्डितैः, ब्राह्मण्याय ब्राह्मणानां कर्म सन्ध्याद्यनुष्ठानरूपं यजनादिषधिं वा, तस्मै जलाञ्जलि: त्यागरूपोदकाञ्जलिः प्रदेयः दातव्यो भवेत् । अस्यायं भाव:-"विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः" इत्यमरात् शास्त्रतश्च यजन-याजन-अध्ययन-अध्यापनदान-प्रतिग्रहरूपैः षट्कर्मभिरुपेतो ब्राह्मणः। तत्र याजनाध्यापन-प्रतिग्रहरूपाणि त्रीणि आजीविकाभूतानि । इतराणि त्रीणि च परमार्थसाधकानि । तत्र च तुरुष्काधिपये याजनादीनामशक्यत्वात् ब्राह्मणानां जीविकाभावः । ततश्च द्रव्याभावादेवान्यानि त्रीणि कर्माणि शिथिलीभवेयुरिति ॥ ९६ ॥
सर्वेति । सर्वतः सर्वत्र काशीप्रदेशे इत्यर्थः । दृष्टिं प्रसार्य मार्मिकतया निरीक्ष्य, श्लाघया प्रशंसया सहितं यथा तथा, उवाचेति शेषः ।
आक्रान्ताविति । आसेतु हैमाचलं सेतुं सेतुबन्धरामेश्वरं हिमाचलं चाभिव्याप्य "आङ् मर्यादाभिविध्योः” इत्यभिविधावव्ययीभावः । वसुंधरासु पृथ्वीस्थषट्पञ्चाशद्देशेषु । वसुंधराशब्देन तत्स्था देशा गृह्यन्ते लक्षणया। यवनैः आक्रान्तासु व्याप्तासु सतीषु, तथा क्षितिभृतां राज्ञां गणः समुदायस्तस्मिन् , यवनभयादिति शेषः। विद्राणे पलायमाने सति, विकरुणे करुणारहिते अत एव नारायणे भगवति विष्णौ, निद्राति भूस्थजनानां स्थितिमनवलोक्य निद्रितप्राये सति, तथा कलौ कलियुगेऽपि निर्विनप्रसरे निर्विघ्नः विघ्नरहितः प्रतिबन्धरहित इति यावत् । प्रसरः संचारः यस्य तथाभूते सति च, लोकोत्तरः इतरलोकविलक्षण: सामान्यजनापेक्षयाऽधिककर्तृत्वशक्तिसंपन्न इति भावः । एकः हि एक एव कश्चित् पुरुषः, अत्र हिरवधारणे "हि हेताववधारणे" इत्यमरात् । तत्र तत्र तस्मिंस्तस्मिन् देशे, वैदिकं वेदोक्तं पन्थानं मार्ग अर्थात् कर्मरूपं, बलात् स्वकीयश्रद्धारूपसामर्थ्यात् , निष्कण्टकं प्रतिबन्धरहितं यथा स्यात् तथा, पाति रक्षति । तस्मादयं धन्य इति भावः ॥ ९ ॥
पुनरिति । पुनश्च पुनरपि सश्लाघं यथा तथा आह
For Private And Personal Use Only