________________
Shri Mahavir Jain Aradhana Kendra
-वर्णनम् ७ ]
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदार्थचन्द्रिका टीकासहिता ।
त्यजतु विहितमेतद्देशवासी निषिद्धम् भजतु तदपि लोके नास्ति धन्यस्तदन्यः ॥
त्रियुगपदनख श्रीदत्तशुद्धिर्यदङ्गे
लगति दुरितभङ्गे लग्नको गाङ्गपूरः ॥ ९८ ॥
प्रौढेषु गौडेषु च कान्यकुब्जेष्वङ्गेषु वङ्गेषु च मैथिलेषु ॥ अन्येषु सत्वेवं बुधेषु धन्येष्वद्यापि जीवन्त्यधिभूमि विद्याः ॥ ९९ ॥ इदं तावदवधेहि ॥ २६॥―
६५
त्यजत्विति । किंच एतद्देशवासी काशीक्षेत्रनिवासी जनः, विहितं श्रुति स्मृतिविहितं कर्म त्यजतु, तथा निषिद्धं श्रुतिस्मृतिषु अनिष्टसाधनत्वेन बोधितं भजतु करोतु आचरत्विति यावत् । तदपि निषिद्धाचरणेऽपि लोके तदन्यः एतद्देशवासिन इतरः, धन्यः पुण्यवान् नास्ति । कुतः । यस्मात् त्रीणि युगानि युग्मानि उत्पत्त्या - दिषट्कं यस्य सः तस्य त्रियुगस्य, उत्पत्त्यादिषटुं च - " उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति" इति । श्रीविष्णोः पदसंबन्धिनखानां श्रिया कान्त्या दत्ता समर्पिता शुद्धिः पावित्र्यं यस्य सः, अत एव दुरितानां पापानां भने विनाशे लग्नकः प्रतिभूरूप: ( 'जामीन' इति महाराष्ट्रभाषाप्रसिद्धः ) “स्युर्लग्नकाः प्रतिभुवः" इत्यमरः । गाङ्गपूरः गङ्गाप्रवाहः, यदङ्गे यस्य काशीनिवासिजनस्य शरीरे, लगति संसक्तो भवति । ' लगे सङ्गे' इत्यस्य रूपम् । तेन चात्रत्यजनः पातक्यपि शुद्धोभवतीति भावः ॥ ९८ ॥
प्रौढेष्विति । अपि च प्रौढेषु प्रगल्भेषु प्रतिभायुक्तेष्विति यावत् । प्रतिभा च "प्रज्ञा नवनवोत्मेषशालिनी प्रतिभोच्यते" इत्युक्ता ज्ञेया । गौडेषु गौडदेशस्थजनेषु कान्यकुब्जेषु तद्देशनिवासिजनेषु, तथा अङ्गेषु अङ्गवासिषु, वङ्गेषु वङ्गदेशवासिषु, मैथिलेषु मिथिलादेश निवासिषु च तथा अन्येषु उक्तान्यदेशेषु पाञ्चालादिषु सत्खपि, काशीनिवासिषु इति शेषः पूर्वापरसंबन्धात् ज्ञेयः । धन्येषु विश्वेश्वरदर्शन - गङ्गास्नानादिना पुण्यवत्सु, बुधेषु पण्डितेष्वेव अधिभूमि भूमौ सप्तम्यर्थस्य द्योतकोऽधिः । तस्य विभक्त्यर्थेऽव्ययीभावः । अद्यापि कलौ युगेपि, विद्याः वेदशास्त्रादयः जीवन्ति विद्यन्ते । अयं भावः - गौड - वङ्ग-मैथिलादिदेशेषु विद्यासंपन्नेषु सत्स्वपि तदपेक्षया काश्यामेव विद्याधिक्यं ज्ञेयम् । तस्माच 'शस्त्रैर्जीवति शास्त्रमुज्झति' इत्यादि पूर्वोक्तं दूषणं नैवात्र संगच्छत इति ॥ ९९ ॥
इदमिति । अपि च इदं मया वक्ष्यमाणं तावत् साकल्येन " यावत्तावच्च साकल्ये" इत्यमरः । अवधेहि सम्यगाकर्णय ॥ २६॥
१ 'ध्वगाधमेधेषु च ' २ 'सत्स्वेषु'.
For Private And Personal Use Only