________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचन्पू:- [काशीएतद्देश्यप्रचुरचरितान्यन्यदेशस्थितानाम्
रोचन्ते चेन्न न मनसे मा रुचन्काऽत्र हानिः ।। प्राज्ञाः पुत्रा जनयितृहृदे पश्य यद्वत्वदन्ते
तद्वद्विद्वन्न परमनसे तावता कोऽत्र दोषः ॥ १० ॥ किंचप्रातश्शीतजले निमज्य विबुधानभ्यर्चयत्युच्चकै
रार्यः पर्युषितं तु नाभ्यवहरत्यन्धः क्षुधान्धोऽप्यसौ ॥ भागे गोमयलिप्त एव पचते भुङ्क्ते ततोऽन्यत्र य
नीतं तद्विजहाति भुक्तिनियमो दृष्टः क्व भूयानियान् ? ॥१०१॥ किं तदित्यपेक्षायामाह-एतदिति । एतस्मिन् देशे भवा एतद्देश्यास्तेषां, भवार्थे यत् प्रत्ययः । प्रचुराणि बहूनि "प्रभूतं प्रचुर प्राज्यमददँ बहुलं बहु" इत्यमरः । न तु एक-द्वित्राणि । चरितान्याचरणानि, अन्यदेशे तिष्ठन्ति निवसन्तीत्यन्यदेशस्थितास्तेषां मनसे रोचन्ते प्रीणयन्ति चेत् , ननु किंवा न रोचन्ते, तर्हि मा रुचन् न रोचन्ताम् "माङि लुङ्" इति लुङ् “न माड्योगे" इत्यडागमनिषेधश्च । अत्र उभयपक्षेऽपि का हानिः ? न कापीत्यर्थः । तत्रोदाहरणम्-प्राज्ञाः विद्वांसः पुत्राः जनयित्रोः मातापित्रोः “माता-पितरौ पितरौ मातर-पितरौ प्रसू-जनयितारौ” इत्यमरः। हृदे मनसे यद्वत् यथा स्वदन्ते रोचन्ते, "रुच्यर्थानां" इति चतुर्थी । तद्वत् तथा परमनसे अन्यमनसे न रोचन्ते, हे विद्वन् सुज्ञ कृशानो, अत्र तावता परमनसेऽरोचनेन को दोषः ? पुत्राणामिति शेषः । पश्य विचारय। प्रतिवस्तूपमालंकारः । “प्रतिवस्तूपमा तु सा । सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः” इति तल्लक्षणात् ॥१०॥
'नीचैर्दुर्यवनैः-' इत्यादिनोक्तं दूषणमपाकरोति-प्रातरिति । किंच असावेतद्देशीय आर्यः श्रेष्ठः। प्रातः प्रातःकाले, शीतजले निमज्ज्य स्नात्वा, विबुधान् विश्वेश्वरबिन्दुमाधवढुण्ढिविनायकादिदेवान् उच्चकैः सम्यक् अर्चयति पूजयति । अनन्तरं क्षुधा क्षुधया अन्धः पीडितोऽपि, पर्युषितं निशावशिष्टं अन्धः अन्नं "भक्तमन्धोऽनं" इत्यमरः । तु नाभ्यवहरति नैव भुले, किंतु तत्कालं परत्वैव भुङ्क्ते इत्यर्थः । तच्च स्वतः गोमयलिप्ते गोमयेनालेपिते भागे प्रदेशे पचते, भुङ्क्ते भुनक्ति च । किंच ततः पाकस्थानात् अन्यत्र यत् खतोऽन्येन केनापि वा नीतं चेत्, तद्विजहाति त्यजति च । ततः भुक्तेः भोजनस्य नियमः इयान् एतत्परिमाणः इदम्शब्दात् वतुपि वस्य घादेशे तस्य चेयादेशे इदम इशादेशे “यस्येति च" इतीकारलोपे च सिद्धमिदम् । भूयान् महान् क दृष्टः ? न कुत्रापीत्यर्थः एवं । च यवनादिभिरवलोकितेऽपि एतनियमदाढर्यान्न तावदूषणावहमिति भावः । इतस्तावन्मध्यदेशवर्णनम् ॥ १.१॥
१ रोचन्ते चेदथ'. २ 'क्षुदन्धः'.
For Private And Personal Use Only