________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ८]
पदार्थचन्द्रिकाटीकासहिता । अथ समुद्रवर्णनम् ८.
इति विमानं दूरतः प्रस्थाप्य साञ्जलिबन्धनम्भुवनकदनक्रुष्यद्वृद्धश्रवःकुलिशायुध
प्रचकितगिरिप्राणत्राणप्रतिष्ठितकीर्तये ।। प्रसृमरमरुन्नाट्याचार्यप्रणर्तितवीचये
महितजनतामान्यायास्सै महोदधये नमः ॥ १०२॥ कृ०-सहासम्पामरैरप्यपेयानां नीरोणां परिपातरि ।।
आश्रये जलजन्तूंनामानिनंसा कथं तव ? ॥ १०३ ॥ अथ समुद्रवर्णनार्थ प्रस्तौति-इतीति । इत्येवमुक्त्वा विमानं दूरतः प्रस्थाप्य नीत्वा, साञ्जलिबन्धं यथा तथा । प्राहेति शेषः।
भुवनेति । भुवनानां लोकानां कदनेन उत्पतनवशान्नाशनेन क्रुध्यन् क्रोधं कुर्वन यो वृद्धश्रवा इन्द्रः “इन्द्रो मरुत्वान् मघवा बिडोजाः पाकशासनः । वृद्धश्रवाः-" इत्यमरः । तस्य कुलिशायुधेन वज्राख्यप्रहरणात् “वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः” “आयुधं तु प्रहरणं" इत्युभयत्राप्यमरः। प्रकर्षेण अतिशयेन चकितस्य भीतस्य गिरेः मैनाकस्य प्राणत्राणेन प्राणसंरक्षणेन प्रतिष्ठिता स्थिरीकृता कीर्तिर्यशो यस्य तस्मै । पूर्व हि सपक्षाः पर्वता इतस्तत उत्पत्य लोकानत्रासयन् । तत इन्द्रेण तेषां पक्षाश्छिन्नाः। परं च मैनाकाख्यो हिमवतो नगाधिराजस्य सूनुः समुद्रे निमज्ज्य स्थित इत्यादिपौराणिकी कथात्रानुसंधेया। प्रसृमरः प्रसरणशील: “मृ-घस्यदः-" इति क्मरच् प्रत्ययः । स चासौ मरुद्वायुश्च स एव नाट्याचार्यः सूत्रधारस्तेन प्रणर्तिता ताण्डविता वीचयो लहर्यो यस्य तस्मै, तथा महितजनतायाः मान्यजनसमूहस्य "ग्राम-जन-बन्धुभ्यः" इति समूहार्थे तल् । मान्याय अस्मै पुरोदृश्यमानाय महोदधये महासमुद्राय नमः॥ १०२॥ कृशानुः। हासेन परिहासेन सहितं यथा तथा प्राह
पामरैरिति । पामरैनींचैरपि अरिति वा, किमुत श्रेष्ठैः । अपेयानां पातुमयोग्यानां क्षारत्वात् पक्षे निषिद्धत्वाचेति भावः । नीराणां उदकानां 'इराणां' इति पाटेइराणां सुराणां जलानां चेति श्लेषादर्थद्वयम् । “इरा भू-वाक्-सुराप्सु स्यात्" इति नानार्थः । परिपातरि परितः आसमन्तात् पातरि रक्षके, पक्षे पानकर्तरि च । जलजन्तूनां मत्स्यादीनां, डलयोरेकत्वस्मरणात् जडजन्तूनां मूर्खाणां आश्रये आश्रयभूते, आनिनंसा नमस्कर्तुमिच्छा ‘णम प्रहृत्वे' इत्यस्मात् सन्नन्तात् प्रत्ययान्तत्वादप्रत्ययः । तव कथम् ? जातेति शेषः ॥ १०३ ॥
१ 'कदनोत्क्रुध्यद्'. २ 'मिराणां'. ३ 'जडजन्तूनां',
For Private And Personal Use Only