________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९२
तार्किक
विश्वगुणादर्शचम्पू:- अथ तार्किकवर्णनम् ४७.
कृ०-पुरतो विमानं प्रस्थाप्य पार्श्वतो दृष्ट्वा
पश्यैतानाग्रहिणः पुरुषान् य एते व्यर्थमेव न्यायग्रन्थसंततचिन्तनेन विश्राम्यन्ति ॥ २३६॥ तथाहिकर्म-ब्रह्मविचारणां विजहतो भोगापवर्गप्रदाम्
घोषं कंचन कण्ठशोषफलकं कुर्वन्त्यमी तार्किकाः ॥ प्रत्यक्षं न पुनाति नापहरते पापानि पीलुच्छटा
व्याप्ति वति नैव पात्यनुमितिर्नो पक्षता रक्षति ॥ ५५२ ।। किंचहेतुः किंच विशिष्टधीरनुमितौ न ज्ञानयुग्मं मरुत्
त्वाचो नेति च मोहवादमुखरा नैयायिकाश्चेद्बुधाः ॥ पश्येति । ये एते न्यायग्रन्थानां गादाधारी-जागदीशीप्रभृतितर्कशास्त्रग्रन्थानां संततचिन्तनेन निरन्तरविचारेण विश्राम्यन्ति विफलं क्लाम्यन्ति । श्रमातिरिक्तं न किंचित्फलं प्राप्नुवन्तीत्यर्थः । अत एव आग्रहिणः वादप्रसङ्गे परमतानङ्गीकारपूर्वक स्वमतस्यैव प्रतिपादकान् एतान्पुरोदृश्यमानान् पुरुषान् पश्यावलोकय ॥ २३६ ॥
कर्मेति । अमी तार्किकाः तर्कशास्त्रविदः भोगः ऐहिकामुष्मिकसुखं अपवर्गो मोक्षश्च तौ प्रददातीति तां कर्मणः ज्योतिष्टोमादिरूपस्य ब्रह्मणः परमात्मनश्च विचारणां मीमांसां, पूर्वमीमांसामुत्तरमीमांसां चेत्यर्थः । तत्र पूर्वमीमांसा कर्मकाण्डप्रतिपादिका ऐहिकामुष्मिकोंगप्रदा । उत्तरमीमांसा च जीव ब्रह्मणोर्वास्तवखरूपप्रतिपादिका मोक्षप्रदा चेति ज्ञेयम् । विजहतस्त्यजन्तः सन्तः, कंचन निष्फलं अत एव कण्ठशोष एव फलं यस्मात् स तत्फलकस्तं घोषं कलकलं कुर्वन्ति । निष्फलत्व. मेवाह-प्रत्यक्षं चक्षुरादीन्द्रियाणि प्रमाणचतुष्टयान्यतम प्रमाणं न पुनाति न पवि. त्रीकरोति, पीलूनां परमाणूनां छटा समूहः पापानि नापहरते न परिहरति, व्याप्तिः व्यापकसामानाधिकरण्यरूपा नावति न रक्षति, अनुमितिः परामर्शजन्यं ज्ञानं 'पर्वतोवह्निमान्' इत्यादिरूपं नैव पाति संरक्षति, पक्षता संदिग्धसाध्यवत्ता च न रक्षति । अत्र प्रत्यक्षादिशब्देन सर्वत्र तत्तद्विचारो ग्राह्यः ॥ ५५२ ॥
हेतुरिति । किंच अनुमितौ पर्वतो वह्निमान् इत्यादिरूपायां विशिष्टस्य साध्यव्याप्तिमत्त्वेन धूमादेर्लिङ्गस्य धीः पक्षवृत्तित्वज्ञानं तदेव हेतुः, ज्ञानयोः
१ 'भ्राम्यन्ति'.
-
For Private And Personal Use Only