________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ४६] पदार्थचन्द्रिकाटीकासहिता । २९१ परं तु
संपन्निर्मदभावयोरनघयोः साहित्य-पाण्डित्ययोः ___ सामर्थ्यान्यजनोपकारकतयोः साम्राज्य-दाक्षिण्ययोः ॥
औदार्य-प्रियवादयोश्च कथयन्त्याचार-विज्ञानयोः .. सामानाधिकरण्यमेव विबुधोत्तंसप्रशंसास्पदम् ॥ ५५० ॥
इदं चावधेयम्प्रणतचरणरेणुविष्णुचित्तः शठमथनरसो मुनिः स भूतः ॥ मधुरकविरितोपरे च धन्याः कति न पुनन्ति जगन्ति सूक्तिपूरैः ५५१
दिकर्ता, डिण्डिमाख्यः, श्रुतिमुकुटगुरुर्वेदान्ताचार्यः, भल्लटः, भट्टबाणः, कादम्बर्यादिग्रन्थकर्ता च, अन्ये उक्केभ्य इतरे सुबन्ध्वादयः कवयः, आदिशब्देन जयदेवादिग्रहणम् । ख्याताः प्रसिद्धाः सन्ति । ते कृतिभिः उपरिनिर्दिष्ट खविरचितकाव्य-नाटकादिग्रन्थैः इह लोके विश्वं आह्लादयन्ति आनन्दयन्ति ॥ ५४९ ॥ __ को वैतेषां कृतिभिर्जनानां लाभः इत्यपेक्षायामाह-परं त्विति । तुर्विरोधसूचकः । तेन तत्कृतिषु वक्ष्यमाणप्रकारेण वर्णनमपेक्षितमिति तदर्थः ।
संपदिति । अनघयोर्निर्दोषयोः, एतत्प्रतिषष्ठयन्तं योजनीयम् । संपदः भावः लक्ष्म्याः सत्ता निर्मदस्य अहंकारराहित्यस्य भावश्च तयोः, भावशब्दस्य द्वन्द्वान्ते श्रूयमाणत्वात् प्रत्येकं संबन्धः । साहित्यं काव्यालंकारादिज्ञानं, पाण्डित्यं तर्कादि. शास्त्रेषु प्रावीण्यं तयोः, सामर्थ्य परपराभवशक्तत्वं अन्यजनेषु उपकारकता च तयोः, साम्राज्यं सार्वभौमत्वं दाक्षिण्यं सरलत्वं च तयोः, औदार्य दातृत्वं प्रियवादः प्रियभाषणं च तयोः, आचारः शास्त्रोक्ताचरणं विज्ञानं शास्त्रज्ञानं च तयोश्च सामानाधिकरण्यमेकत्र स्थितिमेव विबुधोत्तंसानां ज्ञानिश्रेष्ठानां प्रशंसायाः स्तुतेः आस्पदं स्थानं कथयन्ति । जना इति शेषः ॥ ५५० ॥
प्रणतेति । प्रणताः प्रकर्षेण नमस्कृताः अर्थाद्भक्तैः चरणरेणवः पादपांसवो यस्य सः तथाभूतः स चासौ विष्णुश्च भगवान् तस्मिन् चित्तं यस्य सः, सततं विष्णुध्यानतत्पर इत्यर्थः । शठानां कपटवादिनां मथने पराजये रस उल्लासो यस्य सः, सः प्रसिद्धः मुनिः मधुरकविः श्रीशठकोपमुनिरित्यर्थः । तस्यैवेदं नामान्तरमिति भाति । भूतः जातः । इतः श्रीशठकोपमुनेः अपरे अन्ये तत्तद्देशभाषायां काव्यनिमातारः ज्ञानेश्वर-एकनाथ-तुलसीदास-श्रीधर-नामदेव-तुकाराम-वामनादयः धन्याः पुण्यवन्तः सन्तः सूक्तीनां मधुरभाषणानां अर्थात् भावार्थदीपिकादिरूपाणां पूरैः प्रवाहैः कति जगन्ति लोकान न पुनन्ति ? अपि तु बहव एतादृशः सन्तीत्यर्थः५५१॥
For Private And Personal Use Only