________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- वर्णनम् ४७] पदार्थचन्द्रिकाटीकासहिता । मेषस्याण्डमियत्पलं बलिभुजो दन्ताः कियन्तस्तथे
त्येवं सन्ततचिन्तनैः श्रमजुषो न स्युः कथं पण्डिताः ॥ ५५३ ॥ विशिष्य चैतस्य शुष्कतार्किकस्य रीतिर्विवेकिनामुपहासास्पदम् २३७ शृणु तावत
न जिघ्रत्याम्नायं स्पृशति न तदङ्गान्यपि सकृत् ___ पुराणं नाधीते न गणयति किंच स्मृतिगणम् ॥ वदन् शुष्कं तर्क परपरिभवार्थोक्तिभिरसौ
नयत्यायुः सर्व निहतपरलोकार्थयतनः ॥ ५५४ ॥ अपि चप्रयत्नैरस्तोकैः परिचितकुतर्कप्रकरणाः
परं वाचो वश्यान् कतिपयपदौघान्विदधतः ॥
वहिव्याप्यो धूमः धूमवांश्चायं च पर्वतः इत्यादिरूपयोः युग्मं द्वयं तु न हेतुः, मरुद्वायुः त्वाचः त्वगिन्द्रियग्राह्यः न भवति । इत्युक्तरीत्या मोहसंपादकेन भ्रमसंपादकेन वादेन मुखराः शब्दायमानाः नैयायिकाः न्यायशास्त्र विदः बुधाः पण्डिताश्चेत् स्युः, तर्हि मेषस्य अण्डं इयन्ति एतावत्परिमाणानि पलानि यस्य तत्तथाभूतं, पलं नाम कर्षचतुष्टयरूपं तोलप्रमाणम् । एतदेकद्ध्य दिसंख्याकपलप्रमाणमित्यर्थः । तथा बलिभुजः काकस्य "काके तु करटारिष्ट-बलिपुष्ट-सकृत्प्रजाः । ध्वासात्मघोष-परभृद्बलिभुग-वायसा अपि ।” इत्यमरः । दन्ताः कियन्तः कतिसंख्याकाः सन्ति ? इत्येवंप्रकारेण संततं चिन्तनैर्विचारैः श्रमजुषः प्रयत्नकर्तारः जनाः पण्डिताः कथं न स्युः ? अपि तु उभयत्रापि फलाविशेषात्स्युरेवेति भावः ॥ ५५३ ॥
विशिष्येति । विशिष्य विशेषतः एतस्य शुष्कतार्किकस्य निष्फलतर्कशास्त्रविदो रीतिविवेकिनां इतरशास्त्रविवेचनशीलानां उपहासास्पदं परिहासास्पदं भवति २६७
नेति । असौ तार्किकः आम्नायं वेदं न जिघ्रति नाभ्यस्यति, तस्य वेदस्याङ्गानि शिक्षादीनि सकृदेकवारमपि, किमु वारं वारं, न स्पृशति नाधीते, पुराणं पाद्मवैष्णवादिकं नाधीते. किंच स्मृतीनां मन्वादीनां गणं समुदायं न गणयति न मानयति । अत एव निहतं परित्यक्तं परलोकार्थ स्वर्गादिप्राप्यर्थे यतनं यत्नो येन सः तथाभूतः सन् , परेषां शास्त्रान्तरकोविदानां स्वेतरनैयायिकानां च परिभवः पराभव एव अर्थः प्रयोजनं यासां ताश्च ता उक्तयश्च ताभिः उपलक्षितं शुष्कं निष्फलं तक वदन् सन् , सर्वमायुर्जीवितकालं नयति गमयति ॥ ५५४ ॥
प्रयत्नैरिति । किंच अस्तोकैबहुभिः प्रयत्नैः श्रमैः परिचितान्यभ्यस्तानि कुत्सितानां तर्काणां प्रकरणानि वाद-जल्प-वितण्डादिपरिपूरितानि यैस्ते परं वाचो वाण्याः वश्यान् खाधीनान् असकृत् परिशीलनादित्यर्थः । कतिपयानां त्रि-चतुराणां
For Private And Personal Use Only