________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२९४. विश्वगुणादर्शचम्पू:
[ तार्किकसमाया वाचाटाः श्रुतिकटु रटन्तो घटपटान् __न लज्जन्ते मन्दाः वयमपि तु जिहेति विवुधः ॥ ५५५ ॥ वि०-वयस्य विविधोपकारविधायकान् नैयायिकान् मावमंस्थाः ॥ शृणु तावत्मोहं रुणद्धि विमलीकुरुते च बुद्धिम्
सूते च संस्कृतपदव्यवहारशक्तिम् ॥ शास्त्रान्तराभ्यसनयोग्यतया युनक्ति
तर्कश्रमो न तनुते ? किमिहोपकारम् ॥ ५५६ ॥ तथाहिप्रायः काव्यैर्गमितवयसः पाणिनीयाम्बुराशेः
पारज्ञस्याप्यपरिकलितन्यायशास्त्रस्य पुंसः ॥ वादारम्भे वदितुमनसो वाक्यमेकं सभायाम्
प्रहा जिह्वा भवति कियती पश्य कष्टामवस्थाम् ॥ ५५७ ॥ पदानां अवच्छिन्नावच्छेदक-प्रतियोग्यादिशब्दानां ओघान् विद्धतः प्रयोजयन्तः सन्तः, अत एव वाचाटाः बहुगीवाचः “वाचाटो बहुगद्यवाक्" इत्यमरः । सभायां श्रुतिकटु कर्णकटु यथा तथा घटपटान् शब्दान् रटन्तः सन्तः मन्दाः मूढाः एते नैयायिकाः खयं न लज्जन्ते, अपि तु विबुधः पण्डितः जिहेति लज्जते ॥५५५॥
वयस्येति । विविधाः नानाप्रकाराः ये उपकाराः शास्त्रान्तराभ्यासे बुद्धिवैशद्यादयस्तेषां विधायकान् संपादकान् नैयायिकान् मावमंस्थाः वृथादूषणैस्तेषामपमानं मा कुर्वित्यर्थः ॥ २३८॥
मोहमिति । तर्के तर्कशास्त्रे श्रमोऽभ्यासः मोहं बुद्धिभ्रमं रुणद्धि विनाशयति, बुद्धिं च विमलीकुरुते मान्द्यादिदोषपरिहारपूर्वकं निर्दोषीकरोति, संस्कृतानि प्रौढत्व-परिशुद्धत्वादिसंस्कारयुक्तानि यानि पदानि तेषां व्यवहारे भाषणे शक्ति सामर्थ्य सूते जनयति । शास्त्रान्तरस्य व्याकरणाद्यन्यशास्त्रस्य अभ्यसने योग्यतया युनक्ति संगोजयति । ततः इह लोके तदध्येतरि वा तर्कश्रमः उपकार न तनुते न करोति किम् ? ॥ ५५६ ॥
प्राय इति । काव्यैः काव्यग्रन्थाभ्यासैः गमितं यापितं वयो येन तस्य, जन्मपर्यन्तं काव्याभ्यासशीलस्येत्यर्थः । पाणिनीयस्य पाणिनिमुनिप्रणीतव्याकरणस्य अम्बु. राशेः समुद्रस्य पारज्ञस्यापि आसमाप्तिव्याकरणशास्त्रनिष्णातस्यापीत्यर्थः । अपरिकलितमनभ्यस्तं न्यायशास्त्रं येन तस्य पुंसः पुरुषस्य सभायां वादस्य पक्षद्वयस्थपण्डितानां पूर्वपक्षोत्तरपक्षरूपस्य आरम्भे एकं वाक्यमपि, न त्वधिक, वदितुमनसः
१ विविधोपाय'. २ योग्यतमं व्यनक्ति'.
For Private And Personal Use Only