________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४
विश्वगुणादर्शचम्पू:- . [चंपराजगो०अग्रे न्यस्तमिदं मुदैव भगवानालोकनैः स्वीकरो- . ..
त्यंहःसंहरणास्थया च तदिदं प्राश्नन्ति भाग्योत्तराः ॥ ४७१॥ पश्य तावत् स्वानुभवसिद्धौ प्रकर्ष-निको भगवदायतन-तदितरस्थलपरिकल्पितयोरन्नयोः ॥ २०२ ॥
उपस्कारैः स्फारैरुपचितरसामोदभरम
प्यवैत्यन्नं गेहे कृतमनतिभोग्यं बुधजनः ॥ अभूयःसंस्कारिण्यपि हविषि देवालयभवे त्वनल्पं भोग्यत्वं पुनरघहरत्वं च मनुते ॥ ४७२ ॥
केचित् सदादयः चक्रधरस्य विष्णोः अपराधात् चकिताः यदि तावत् अशुचितया. उन्नादिकं पाचितं तर्हि भगवतोऽपराधः स्यादिति भीताः, परे अन्ये ये तावदीश्वरा. द्रयं न मन्यन्ते ते इत्यर्थः । क्ष्मापालात् राज्ञः सकाशात् भीताः यदि तावदनवहितत्वेनाशुचित्वेन च पाकनिष्पत्तिः कदाचिद्राज्ञा राजपुरुषेण वा केनचिदृष्टा स्यातदा वयं दण्ड्या भवेमेति शङ्किताः सन्तः, अत एव अवहिताः पाककर्मणि दत्तचित्ताः, तत एव च शुद्धाः स्नानादिना पवित्राश्च सन्तः कतिचिदौदनिकाः श्रद्धातः आस्तिक्यबुद्ध्या दिव्यं सम्यग्विहितत्वेन तेजोयुक्तं हविरन्नादिकं पचन्ति । ततश्च इदं सावधानतया पवित्रतया च निष्पादितमन्नं अग्रे न्यस्तं नैवेद्यार्थ पुरःस्थापितं सत् भगवान् मुदैव आनन्देनैव आलोकनैरवलोकनैः स्वीकरोति । तच्चेदं भगवदी. क्षणेनात्यन्तपरिशुद्धमन्नादिकं अंहसां पापानां संहरणास्थया विनाशाशया भाग्योत्तराः अतिशयभाग्यवन्तो जनाः प्राश्नन्ति भक्षयन्ति ॥ ४७१॥
नन्वनुभवमन्तरेण व्यर्थमेवेदं सर्व त्वद्भाषणमिति चेदाह-पश्येति । भगवतः आयतने स्थाने तदितरस्मिंश्च स्थले कस्यचिद्गृहे परिकल्पितयोः पाचितयोरन्नयोः खानुभवेनात्मीयानुभवेनैव नतु मत्सदृशान्येन केनचित्कथितमात्रेण, सिद्धौ प्रकर्षः देवालयनिष्पादितस्योत्कर्षः निकर्षः तदितरस्थलनिर्मितस्य चापकर्षश्च ती पश्य तावत् ॥ २०२॥
उपस्कारैरिति । स्फारैर्बहुलैः उपस्कारैः वेसवारादिव्यञ्जनैः उपचितः वृद्धः रसस्य तिक्ताम्लादेः आमोदस्य सुगन्धस्य च भरः अतिशयः यस्मिन् तथाविधमप्यन्नं गेहे गृहे कृतं पक्वं चेत्, तत् बुधजनः अनतिभोग्य अतीव भोजनानह अ. वैति जानाति । किंच देवालयभवे भगवन्मन्दिरपक्के न विद्यन्ते भूयांसो बहुलाः संस्कारा व्यजनादयो यस्मिन् तथाभूतेऽपि, किं पुनर्बहुतरसंस्कारवति हविषि अन्ने अनल्पं बहुतरं भोग्यत्वं भोजनयोग्यत्वं, न त्वेतावदेव, पुनः अघहरत्वं पापनिवर्त. कत्वं चापि मनुते । अयं हि केवलमीश्वरस्थानप्रभाव एवेति भावः ॥ ४७२ ॥
१ 'संहरणाशया'. २ प्रकर्षापकाँ'. ३ 'कृतमयमभोग्यं'.
For Private And Personal Use Only