________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ४९] पदार्थचन्द्रिकाटीकासहिता । २९९ किंच
शबर-कुमारिल-गुरवो मण्डन-भवदेव-पार्थसारथयः ॥ अन्ये च विश्वमान्या जयन्ति संत्रायमाणतन्त्रास्ते ॥ ५६७ ॥
-
अथ वैयाकरणवर्णनम् ४९.
कृ०-अस्त्विति विमानमन्यतो गमयन् पार्श्वतो दृष्ट्वा सोपहासम्टिड्डाणञ्-द्वयसच्चुटू ङसिङसोस्तिप्-तस्-झि-सिप्-थस्-थ-मिब्–
वस्-मस्-तानचि च ष्टुना ष्टुरत इञ् शश्छोऽट्यचोऽन्त्यादि टि ॥ लोपो व्योवलि वृद्धिरेचि यचि में दाधा घ्वदानाज्झला
वित्येते दिवसान्नयन्ति कतिचिच्छब्दान् पठन्तः कटून् ॥५६८॥ त्मकत्व-मुक्तिप्रदत्वादिरूपं विचारयति सर्वत्र जगति संचारयतीति तस्मिन्निति च, अधिकरणानां शास्त्रीयनयानां, अधिकेन परपराभवसमर्थेन रणानां युद्धानां च सहस्रेण शिक्षिताः अध्यापिताः, दण्डिताश्च विपक्षाः शास्त्रान्तरीयपूर्वपक्षाः शत्रवश्व येन तस्मिन् , खामिनि वेदोक्तकर्मणां याथार्थ्यवेत्तृत्वात्सकलपण्डितानामधिपतौ जैमिनिनामके योगिन्यप्येव, अपिरवधारणार्थकः । पक्षे खामिनि भगवति, जैमिनियोगिनि चेत्यर्थः । अत्रापिः समुच्चायकः । इदमस्मदीयं मम हृदयं मनः रज्यति रमते ॥ ५६६ ॥ _ 'शबरादयो भगवद्भक्तानां विनिन्दनीयाः' इत्युक्तं निराकरोति-शबरेति । शबरः शबरखामी कुमारिल: गुरुः प्रभाकरश्च ते, मण्डनः मण्डनमिश्रश्च भवदेवः पार्थसारथिश्च ते, एते सर्वे मीमांसासूत्रभाष्य-वार्तिक-तयाख्यानादिकर्तारः । अन्ये ताताचार्य-अप्पयदीक्षितादयो बोध्याः । ते च सम्यक् त्रायमाणं रक्ष्यमाणं तन्त्रं मीमांसाशास्त्रं यैस्ते तथाभूताः सन्तः अत एव विश्वमान्याः सर्वलोकपूज्याः सन्तः जयन्ति सर्वोत्कर्षेण वर्तन्ते । सकलवैदिककर्मप्रवर्तकत्वात् अन्येभ्यस्तर्कादिशास्त्रविद्भ्योऽपि मीमांसका एव मान्या इति भावः ॥ ५६ ॥
टिडाणमिति । 'टिडाणञ् द्वयसच्' इति "टिडाणञ्-द्वयसज्-दन्नन्-मात्रच्तयपू-ठक-ठकञ्क्वरपः" इति पाणिनीयसूत्रैकदेशः, “चुटू" "डसि-ङसोः", "तिप्-तसू-झि" इत्यप्येकदेशः । “तिप्-तस्-झि-सिप्-थस्-थ-मिप्-वस्-मस्-ताताझ-थासाथां-ध्वमिड्-वहि-महिङ्” इति सूत्रस्य । “अनचि च" "टुना टुः" "अत इञ्" "शश्छोऽटि" "अचोऽन्त्यादि टि" ."लोपो व्योर्वलि"
१ 'शबर-कुमारिल-गुरवो मण्डनयन् समुदहति सुदृशम् । वर्णादीनां धर्मान् बुद्धा विधिवत्प्रयुक्तेऽसौ'. (१)
-
-
For Private And Personal Use Only