________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९८
विश्वगुणादर्शचम्पू:- [ मीमांसक- पश्य तावद्भगवत इव जैमिनिमुनेः शासनं वैदिकैः सर्वैरप्यनतिकमणीयम् ॥ २४१॥
तथाहिनैयायिका वा ननु शाब्दिका वा त्रयीशिरस्सु श्रमशालिनो वा ॥ वादाहवे बिभ्रति जैमिनीयन्यायोपरोधे सति मौनमुद्राम् ॥ ५६४ ॥ यच्च मीमांसकेषु दोषोद्धाटनं तदज्ञानतः ॥ २४२ ॥
भगवदनभ्युपगमनं दैवतचैतन्यनिहवश्वैषाम् ॥
कर्मश्रद्धावर्धकतत्प्राधान्यप्रदर्शनायैव ॥ ५६५ ॥ - पुनरालोच्य सबहुमानम्.. आगमरूपविचारिण्यधिकरणसहस्रशिक्षितविपक्षे ॥
खामिनि जैमिनियोगिन्यपि रज्यति हृदयमसदीयमिदम् ॥ ५६६ ॥ पश्येति । भगवतः ईश्वरस्येव जैमिनिमुनेः मीमांसाशास्त्रप्रणेतुः शासनं शास्त्ररूपाज्ञां सर्वैरपि वैदिकैर्वेदविद्भिः अनतिक्रमणीयमनुल्लङ्घनीयम् ॥ २४१ ॥ - नैयायिका इति । नैयायिकास्तार्किकाः वाथवा शाब्दिकाः शब्दशास्त्रविदः वैयाकरणा इत्यर्थः । ननु वा किंवा त्रयीशिरस्सु उपनिषत्सु श्रमशालिनः अभ्यास. शीलिनश्च, वेदान्तिन इत्यर्थः । वादः परस्परपूर्वपक्षोत्तरपक्षरूपः एव आहवो युद्धं तस्मिन् जैमिनीयस्य मीमांसाशास्त्रस्य न्यायैः अधिकरणैः उपरोधे विरोधप्रदर्शने सति मौनमुद्रां बिभ्रति धारयन्ति । प्रमाणादीनां यथार्थावगमाभावान किमपि वक्तुं शक्नुवन्तीत्यर्थः ॥ ५६४ ॥ - यच्चेति । अत एव मीमांसकेषु यत् दोषाणां 'मीमांसकाः कतिचित्-' इत्यादिपद्यद्वयप्रतिपादितानां उद्घाटनमारोपणं कृतं तत् अज्ञानतः याथातथ्येन तत्वरूपानवगमादित्यर्थः ॥ २४२ ॥ • यदुक्तं 'ब्रह्मैव नाभ्युपगतः पुरुषोत्तमः' 'देवतानां चैतन्यस्यापहवं चक्रुः' इति दूषणद्वयं तदुद्धारार्थमाह-भगवदिति । एषां मीमांसकानां भगवतः परब्रह्मणः अनभ्युपगमनं अनजीकरणं दैवतानां चैतन्यस्य निहवः अपलापश्चेति द्वयं कर्मणि यज्ञादिरूपे श्रद्धायाः आस्तिक्यबुद्धेः वर्धकं यत् तस्य यज्ञादिकर्मणः प्राधान्यं मुख्यत्वं तस्य प्रदर्शनायैव, न तु वस्तुत इत्यर्थः ॥ ५६५ ॥ . आगमेति । आगमस्य वेदस्य रूपं विधि-अर्थवाद-मन्त्रविनियोगादिखरूपं विचारयति तच्छील: आगमरूपविचारी तस्मिन् , आगमैः “न जायते म्रियते वा विपश्चित् , अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः, तरति शोकमात्मवित् , तत्त्वमसि' इत्यादिश्रुतिवचनैः रूपं खकीयं अविनाशिल-सच्चिदानन्दा.
१ 'तत्र तावदवधेहि'. 'तदापाततः'.
For Private And Personal Use Only