________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णनम् ४८] पदार्थचन्द्रिकाटीकासहिता। २९७ - वि०-सखे ! निखिलनिगमार्थनिर्धारणबद्धादरेषु मीमांसकेषु. मा म सन्नह्येथाः ॥ २४० ॥
शृणुआदौ धर्मे प्रमाणं विविधविधिभिदां शेषतां च प्रयुक्तिम् __ पौर्वापर्याधिकारौ तदनु बहुविधं चातिदेशं तथोहम् ॥ बाधं तन्त्रं प्रसङ्गं नयनयनशतैः सम्यगालोचयद्भयो
भिन्ना मीमांसकेभ्यो विदधति ? भुवि के सादरं वेदरक्षाम् ॥५६३॥
स्मैकचित्तत्वात् । यतः, एते मीमांसकाः नश्वरं विनाशशीलं विश्वं मन्यमानाः सत्यत. याङ्गीकुर्वाणाः सन्तः, क्वचित् 'वीश्वरं' इति पाठः । तत्पक्षे विश्वं वीश्वरं ईश्वररहितमित्यर्थः । देवतानां अग्नीन्द्रादियज्ञियदेवानां चैतन्यस्य चिद्रूपत्वस्य अपह्नवं लोपं चक्रुः कृतवन्तः । अग्नीन्द्रादिदेवतानां विग्रहवत्त्वे युगपन्नानाकर्तृकयागेषूपस्थानासं. भवान्मन्त्राणामेव देवतारूपत्वाझीकारान्मन्त्राणां चाचेतनत्वादिति भावः ॥ ५६२ ॥
सख इति । निखिलानां निगमानां वेदानां अर्थस्य निर्धारणं नयसहस्रपुरस्कार• पूर्वकं निश्चयः तस्मिन् बद्धादरेषु कृतादरेषु मीमांसकेषु मा स्म संनयेथाः तान् दूषयितुं मोयुक्तो भव ॥ २४० ॥
प्रथमं तावन्मीमांसकानां वेदरक्षकत्वादतीव वन्द्यत्वमाह-आदाविति । आदौ द्वादशाध्यायघटितमीमांसाशास्त्रस्य प्रथमाध्याये धर्मे चोदनालक्षणेऽर्थे प्रमाणं "अग्निहोत्रं जुहोति, वसन्ते वसन्ते ज्योतिषा यजेत" इत्यादिचोदनारूपं, ततो द्वितीयाध्याये विविधाः अनेकप्रकारा ये विधयः चोदनाः तेषां भिदां भेदं, ततस्तृतीये, एवमग्रेऽप्युक्तं सर्वं प्रत्यध्यायं ज्ञेयम् । शेषतां अङ्गत्वं, प्रयुक्ति प्रयोज्यप्रयोजकभावं च, पौर्वापर्य पूर्वमिदं कर्म कर्तव्यं अनन्तरमिदमित्यादिक्रमः, अधिकारः फलखाम्यं च तौ, तदनु तदनन्तरं सप्तमाष्टमयोर्बहुविधमनेकप्रकार अतिदेशं प्रकृतितुल्यत्वं तथा ऊहं कर्मभेदे मन्त्रादिविनियोग-विपर्ययादित, बाधं उत्सर्गतः प्राप्तस्य अपवादं, तन्त्रं सकृदनुष्ठितस्याङ्गजातस्य खप्रयोजकानेकप्रधानोपकारकत्वं, प्रसङ्गं अ. न्यार्थानुष्ठिताजस्यान्येनोपजीवनं च एतान् सर्वान् नयाः तत्तदधिकरणप्रतिपादितयुक्तय एव नयनानि लोचनानि तेषां शतैः सम्यक् आलोचययोऽवलोकययः मी. मांसकेभ्यः भिन्नाः अन्ये भुवि के पण्डिताः सादरं श्रद्धया सहितं यथा तथा वेदस्य रक्षां तत्प्रतिपादितकर्मणां यथार्थनिर्णयरूपां विदधति कुर्वते ? प्रमाणादीनां यथार्थस्वरूपबोधने तावन्नान्ये मीमांसकेभ्यः शक्ता इति भावः ॥ ५६३ ॥
१ विशदमथ भिदाम्', 'प्रथितमथ भिदा', 'विविधदुरभिदा'.
For Private And Personal Use Only