________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [ गङ्गानदीब्रह्मोत्तमाङ्गभिद एव सहस्थितिश्च
__ ख्यातो लयो जलनिधौ किल गाङ्गवाराम् ॥ ७५ ॥ विश्वाव०-शान्तं पापम् । मन्दमते किं मुकुन्दपादारविन्दनियन्दिनीं धुनीमपि निन्दसि ? ॥ २० ॥ गाङ्गानि तादृशानि च वारि उदकानि च तेषां, “आपः स्त्री भूम्नि वार्वारि" इत्यमरः । गङ्गोदकानामित्यर्थः । जनिरुत्पत्तिस्तु "जनिरुत्पत्तिरुद्भवः” इत्यमरः । हिरण्यहर्तुः सुवर्णचोरस्य चरणतः आचरणात् , जातेति शेषः । तथा ब्रह्मणः ब्राह्मणस्य उत्तमा शिरः । “उत्तमाङ्गं शिरः शीर्ष" इत्यमरः । भिनत्ति छिनत्तीति उत्तमाङ्गभित् तस्य ब्रह्महन्तुरित्यर्थः । मूर्ध्नि मस्तके "मूर्धा ना मस्तकोऽस्त्रियाम्" इत्यमरः । गुरोरध्यापकस्य दाराणां भार्यायाः विटेन जारेण "भार्या जायाऽथ पुभूम्नि दाराः" इत्यमरः । “विटोऽद्रौ लवणे षिङ्गे (जारे) मूषिके खदिरेऽपि च" इति मेदिनी च । अत एव दोषाणां आकरेण उत्पत्तिस्थानेन सह स्थितिः वासश्च । तथा लीयते एकीभूयते अनेनेति लयः मैत्रीति यावत् । जलानां डलयोः सावता॑त् जडानां मद्यपानेन मत्तानां निधौ समुदाये, ख्यातः प्रसिद्धः एव । किलेल्यैतिर्यो । अनेन भागीरथीजलानां पञ्चमहापातकवत्त्वं सूचितम्। तथा चाह मनु:-"ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः। महान्ति पातकान्याहुः संसर्गश्चापि तैः सह" इति । अयमर्थस्त्वापाततः । वास्तवस्तु येषां गाङ्गवारां जनिः प्रादुर्भावः, हिरण्यहर्तुर्हिरण्यकशिपुनामकदैत्यस्य हन्तुः । नामैकदेशेन नामग्रहणात् हिरण्यशब्देन हिरण्यकशिपुग्रहणम् । विष्णोरिति यावत् । चरणतः पादात् , ब्रह्मणः ब्रह्मदेवस्योत्तमाझं पञ्चमशिरः तद्भिनत्ति छिनत्तीति तथाभूतस्य शिवस्येत्यर्थः । शिवेन हि ब्रह्मणः पञ्चमशिरश्छिन्नमिति पुराणप्रसिद्धिः । मूर्ध्नि, गुरुदारविटेन वृहस्पतिपत्नीविटेन दोषाकरश्चन्द्रः तेन सह स्थितिश्च ख्याता । जलनिधौ समुद्रे च लयः ख्यातः इति । एवं च विष्णुचरणोत्पत्त्या, शिवमस्तके चन्द्रेण सह स्थित्या च परमपावनत्वं गङ्गाजलानां सूचितमिति ज्ञेयम् । अत्र श्लेषमूलका व्याजस्तुतिईया । मुखनिन्दायाः स्तुतौ पर्यवसानात् । तदुक्तम्-"व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा" इति । अतः परं पूर्वकथितवृत्तानां नामलक्षणं नैवोच्यते ॥ ७५॥
एवं कृशानूक्तं निन्दनमसहमान आह विश्वावसुः-शान्तमिति । शान्तं पापं पापवचनं नोचारणीयमित्यर्थः । हे मन्दमते मन्दबुद्धे, मुकुन्दस्य श्रीकृष्णस्य पादारविन्दाचरणकमलात् निष्यन्दिनी प्रस्रवन्ती, अनेन तस्याः परमपावित्र्यं सूचितम् । धुनी गङ्गानदीमपि किं कस्माद्धेतोः निन्दसि ? ॥२०॥
१ एतत् कचित्पुस्तत्रे नैव दृश्यते. २ 'मरन्दधारा'. ३ 'विनिन्दयसि'.
For Private And Personal Use Only