________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ६] पदार्थचन्द्रिकाटीकासहिता । पश्यगाङ्गानि वारि गरुडध्वजपादपद्मा
दाविर्बभूवुरपुनन् पुनरिन्दुमौलिम् ।। निन्युर्विचित्रममृतं सगरान्वयं च
'नेतोऽधिकं भुवि पवित्रतमं समं वा ॥ ७६ ॥ किंचसा सर्वतोमुखवती तटिनी सरागां
मूर्तिर्विधेरिव बिभर्ति सरखतीं च ॥ भेदस्त्वियान् बलिभिदश्चरणारविन्दा
दाद्या बभूव चरमा किल नाभिपद्मात् ॥ ७७ ॥ निन्दानहत्वमेव प्रतिपादयति-गाङ्गानीति । गाङ्गानि गङ्गासंबन्धीनि वारि जलानि, रेफान्तोऽयं वाशब्दः । गरुडः ध्वजे यस्य तस्य विष्णोरित्यर्थः । पादपद्माचरणकमलात्, आविर्बभूवुः प्रकटीबभूवुः । नैतावदेव, अपि तु इन्दुश्चन्द्रः "च. न्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः" इत्यमरः । मौलौ मस्तके यस्य तं शंकरमित्यर्थः । अपुनन् पवित्रीचक्रुः । कालकूटदाहं शमयामासुरित्यर्थः । 'पूञ् पवने' इत्यस्मात् धातोर्लङ् प्रथमपुरुषबहुवचनम् । अपि च विचित्रं कपिलमहामुनिशापात् अधोगति. रूपविचित्रदशापन्नं, सगरस्य राज्ञोन्वथं वंशं च "संततिर्गोत्र-जनन-कुलान्यभिजनान्वयौ । वंशोऽन्ववायः" इत्यमरः । अमृतं मोक्षं निन्युः प्रापयामासुः । तस्मात् उपयुक्तप्रभावात् , इतः गङ्गाजलेभ्योऽधिकं, इत इत्यत्र सार्वविभक्तिकस्तसिः। भुवि पवि.
तममतिशयपवित्रं वाथवा समं तुल्यमपि न । अस्तीति शेषः । अपि तु अन्यानि सर्वाण्यपि तीर्थानि न्यूनान्येवेति भावः ॥ ७६ ॥
किंच-सेति । सर्वतोमुखवती प्रशस्तजलयुक्ता, प्राशस्त्ये मतुप् । “पुष्कर सर्वतोमुखम्" इत्यमरः । यद्वा सर्वतः स्वर्ग-पाताल-भूलोकेषु मुखानि प्रवाहरूपेण प्रसरणानि यस्याः सा तथाभूता "मुखं निःसारणे के प्रारम्भोपाययोरपि" इति मेदिनी । पक्षे सर्वतश्चतुःपार्श्वेषु मुखानि यस्याः सा तथाभूता च । सा प्रसिद्धा तटिनी नदी भागीरथीत्यर्थः । “तटिनी हादिनी धुनी" इत्यमरः। विधेः ब्रह्मणः मूर्तिदेह इव रागेण रक्तिना अनुरागेण च । “रागोऽनुरागे लाक्षादौ मात्सर्यालोकयोरपि” इति वैजयन्ती । सहिता युक्ता तां सरस्वती नाम नदी, वाणी च "ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरखती" "चन्द्रभागा सरखती" इत्युभयत्राप्यमरः । बिभर्ति धारयति। उभयोर्भेदमाह-भेद इति। उभयोर्भागीरथीब्रह्ममूर्योः आद्या प्रथमा भागीरथी, बलिं भिनत्तीति बलिभिद्विष्णुस्तस्य "सत्सू”-इत्यादिना क्विप् । चरणारविन्दात्
१ 'नातोऽधिकं'. २. 'बलिजितः'.
For Private And Personal Use Only