________________
Shri Mahavir Jain Aradhana Kendra
५२
अपि च
अन्यच्च
P
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:
भागीरथीं प्राप्य बुधाः पितृभ्यो जलाञ्जलिं सादरमर्पयन्ति ॥ पापानि सर्वाणि ततः पितॄणां भवन्त्यहो दत्तजलाञ्जलीनि ॥ ७८ ॥
भागीरथीं यः पटुधीरुपास्ते
यथाक्रतुन्यायत एष धन्यः ॥ देवत्वमेत्य त्रिदिवे सुधयां
भागीरथीति व्यपदेशमेति ॥ ७९ ॥
[ गङ्गानदी
चरणकमलात् बभूव उत्पन्ना । चरमा अन्त्या ब्रह्ममूर्तिरित्यर्थः । नाभिपद्मान्नाभिकमलात् बभूव । इयानेव तु भेदः । किलेति निश्चये । उपमालंकारः ॥ ७७ ॥
नैतावदेव, अन्यदपि तन्महित्वं श्रण्वित्याह-अपि चेति-भागीरथीमिति । बुधाः पण्डिताः शास्त्रतस्तन्माहात्म्याभिज्ञा इत्यर्थः । भागीरथीं प्राप्य गत्वा, पितृभ्यः जलाञ्जलिमुदकाञ्जलिं आदरेण पूज्यभावेन सहितं यथा स्यात्तथा अर्पयन्ति ददति । एवं कृते किं भवति तदाह- तत इति । ततः उदकाञ्जलिसमर्पणात्, पितॄणां सर्वाणि पापानि दुरितानि, दत्तः समर्पितः जलाञ्जलिरुदकाञ्जलि: 'अद्यप्रभृति पितृणामस्माकं च न कोऽपि संबन्ध:' इत्युक्त्वा जलनिक्षेपो यैस्तथाभूतानि भवन्ति । अर्थात् अञ्जलिसर्पणक्षण एव पितॄणां सर्वाणि पापानि नश्यन्तीति भावः । अहो इति विस्मये ॥ ७८ ॥
अन्यदप्याह-भागीरथीमिति । यः पट्टी कुशला धीर्बुद्धिर्यस्य सः “स्त्रियाः पुंवद्भाषितपुंस्कादनूङ्-" इत्यादिना पटुशब्दस्य पुंवद्भावः । भागीरथीं गङ्गां उपास्ते सेवते भजते इति यावत् । उपपूर्वकस्य 'आस उपवेशने' इत्यादादिकस्य लटि रूपम् । अत एव धन्यः पुण्यवान् "सुकृती पुण्यवान् धन्यः" इत्यमरः । एषः भागीरथ्युपासकः । यथाक्रतुन्यायतः यथा यादृशः ऋतुः संकल्पो यस्य स यथाक्रतुः तस्य न्यायः संकल्पानुसारेण परत्र फलप्राप्तिरूपः 'यथाक्रतुरस्मिंल्लोके पुरुषो भवति ततः प्रेत्य भवति' इति छान्दोग्ये प्रसिद्धः तेन देवत्वं देवरूपमेत्य प्राप्य, त्रिदिवे स्वर्गे, सुधायां अमृतमध्ये इत्यर्थः । भागी भागवान्, रथी रथयुक्तः विमानयुक्त इति यावत् । इत्येवंरूपं व्यपदेशं व्यवहारं एति प्राप्नोति । अर्थात् भागीरथीं संसेव्य स्वर्गे लोके देवखरूपं संपाद्य विमानेन संचरतीति ज्ञेयम् ॥ ७९ ॥
१ 'सुराणां '.
For Private And Personal Use Only