________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णनम् ६]
पदार्थचन्द्रिकाटीकासहिता ।
किंचसरखत्याऽऽश्लिष्टा सवितृतनयालिनितझरा ..
स्फुरद्गुच्छवच्छा प्रकृतिरिव भाति त्रिगुणभाक् ।। तथाप्येषा दोषापनमनपटुः स्वाकलनया
प्रगल्भं संसारं प्रशमयति कंसारिपदभूः ॥ ८० ॥ किंचगाम्भीर्येण गदाधरस्य हृदयं माधुर्यतस्तद्गिरं
श्वेतिम्ना च यशस्तदीयमनघं शैतल्यतस्तत्कृपाम् ।। सरस्वत्येति । किंच कंसारेः श्रीविष्णोः पदाचरणाद्भवति उत्पद्यते इति कंसारिपदभूः श्रीकृष्णचरणकमलोत्पन्ना भागीरथीत्यर्थः । सरखत्या रक्तया नद्या आश्लिष्टा आलिङ्गिता कृतसंगमेति यावत् । तथा सवितृतनया सूर्यकन्या यमुनाभिधा नीलवर्णी नदी तया आलिङ्गितः संगतः झरः प्रवाहो यस्याः सा तथाभूता । यमुनाप्रवाहसंगमित्यर्थः । खतस्तु स्फुरन् प्रफुल्लितः यः गुच्छः पुष्पस्तबकः स इव खच्छा शुभ्रवर्णा एषा पुरोदृश्यमाना गङ्गा, त्रीन् गुणान् सत्त्वरजस्तमोरूपान् , पक्षे शुक्ल-रक्त-कृष्णवर्णान् भजतीति तथाभूता । प्रकृतिरिव प्रपञ्चोत्पादिका मायेव भाति केवलं उपरितनरूपेण दृश्यते । भगवन्मायाया हि "अजामेकां लोहित-शुक्ल. कृष्णां" इत्यादिश्रुत्या "दैवी ह्येषा गुणमयी मम माया दुरत्यया" इति भगवद्गीतया च त्रिगुणत्वं प्रतिपादितम् । अन्ततस्तुन तथा, कुतः तदाह-तथापीति । यद्यपि त्रिगु. णात्मिकेव भाति, तथापि दोषाणां प्रापञ्चिकदुःखानां अपनयने विनारणे पटुः समर्था । पटुशब्दात् “वोतो गुणवचनात्" इति विकल्पात् ङीषभावः । एषा भागीरथी खस्याः आकलनया सेवया, प्रगल्भं प्रौढं विस्तृतमिति यावत् । संसारं जन्म-जरा मरणादिरूपं प्रशमयति विनाशयति । प्रकृतिस्तु संसारं जनयतीति भावः । तस्मादतुलमाहात्म्यवतीयमित्यर्थः ॥ ८०॥
किंच इयं तावत्सर्वचेष्टितैः श्रीविष्णुमेवानुसरतीत्याह-गाम्भीर्येणेति । तस्य गदाधरस्य श्रीविष्णोरिति यावत् । पदाचरणात् भवन्ति उत्पद्यन्ते इति तत्पदभुवः। सर्वनानः प्रकृतपरामर्शकत्वात् तच्छब्दस्य गदाधरपदेन संबन्धः । इमे पुरोवर्तिनः वारां जलानां राशिः समुदायः समुद्रस्तस्य दाराः पत्नी गङ्गेत्यर्थः । दारशब्दस्य पुंसि नित्यं बहुवचनत्वात् । “भार्या जायाथ पुंभूग्नि दाराः स्यात्तु कुटुम्बिनी" इत्यमरः । वाराशिरित्यत्र 'वार राशिः' इति स्थिते "रो रि" इति रेफस्य लोपः । गम्भीरस्य निम्नस्य भावः गाम्भीर्य अगाधत्वमिति यावत् । “निम्नं गभीरं गम्भीरं" इत्यमरः । तेन गदाधरस्य विष्णोः हृदयमन्तःकरणं, इत आरभ्य गिरम्' 'यशः' इत्यादिसर्वपदानां 'अनुसरति' इत्यनेनान्वयः । माधुर्यतः खादुतया,
१ 'पटुत्वाकलनया'.
-
un
For Private And Personal Use Only