________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४
विश्वगुणादर्शचम्पू:- [काशीनैर्मल्यातिशयेन तस्य धिषणां नित्यं प्रसादेन त-."
द्वकं चानुसरन्ति तत्पदभुवो वाराशिदारा ईमे ॥ ८१ ॥
अथ काशीवर्णनम् ७.
इति बद्धाञ्जलिरमतोऽवलोक्य सानन्दम्काशी सकाशीभवदिन्द्रगेहसौधाग्रभागा बहुसप्तिनांगा ॥ इन्धे मयूखैरियमन्धकारव्युत्पत्तिशून्या शिवशेखरेन्दोः ॥ ८२ ॥
तृतीयार्थे तसिः । तस्य विष्णो: गिरं वाणी, श्वेतस्य शुक्लस्य भावः श्वेतिमा शुक्लत्वेनेत्यर्थः । “वर्ण-दृढादिभ्यः-" इति भावार्थे इमनिच् । तदीयं श्रीविष्णुसंबन्धि अनघं निर्मलं, यशः कीर्ति, शैतल्यतः शीतलत्वेन, 'गुणवचनब्राह्मणादिभ्यः-' इति ध्य प्रत्ययः । तस्य कृपा, नैर्मल्यस्य निर्मलत्वस्य अतिशयेनोत्कर्षेण तस्य विष्णोः धिषणां बुद्धिं "बुद्धिर्मनीषा धिषणा" इत्यमरः । नित्यं प्रसादेन प्रसन्नतया, तस्य भगवतो वकं मुखं च अनुसरन्ति अनुकुर्वन्ति । एवं च पूर्वोक्तसकलोदात्तगुणविशिष्टत्वाद्भगवती भागीरथी दोषशल्यमपि नाहति, किंतु संततप्रशंसामेवाईतीति सूचितमिति भावः ॥ ८१॥
एवं भागीरथीं स्तुत्वा तनिवासस्थानभूतां काशीं वर्णयितुमाह-इतीति । इत्येवमुक्त्वा बद्धाञ्जलिः सन् अग्रतोऽवलोक्य दृष्ट्वा, सानन्दमानन्देन सहितं यथा तथा, आहेति शेषः।
काशीति । सकाशीभवत् संनिधित्वेन विद्यमानं इन्द्रगेहं वर्गलोको येषां तादृशाः सौधानां उच्चैस्तरगृहाणामग्रभागा यस्यां सा इति बहुव्रीहिगर्भो बहुव्रीहिः। तथा बहवः सप्तयोऽश्वाः नागा गजाश्च यस्यां सा तथाभूता । "घोटके वीति-तुरग-तुरं. गाश्व-तुरंगमाः । वाजि-वाहार्व-गन्धर्व-हय-सैन्धव-सप्तयः ।" इति "मतंगजो गजो नागः" इति चामरः। तथा शिवस्य विश्वेश्वरस्य शेखरेन्दोमस्तकभूषणभूतचन्द्रस्य "शिखाखापीड-शेखरौ” इत्यमरः । मयूखैः किरणैः "किरणोऽस्रमयूखांशु-" इत्यमरः । अन्धकारस्य व्युत्पत्त्या उद्भवेन शून्या रहिता । भगवतः शंकरस्य नित्यनिवा. सात् तच्छिरःस्थचन्द्रकिरणैः सूर्याभावेऽपि प्रकाशयुक्तेत्यर्थः । इयं काशी नगरी इन्धे प्रकाशते । 'नि इन्धी दीप्तौ इत्यस्माद्वधादेर्लट् ॥ ८२ ॥
१ 'इव'. २ 'साञ्जलि:'. ३ 'नादा'.
For Private And Personal Use Only