________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ७] पदार्थचन्द्रिकाटीकासहिता।
कृशानु:-वयस्य किमेषापि तव स्तवास्पदम् ? ॥ २१ ॥ पश्यये मिष्टान्नभुजो गजोत्तमहयारोहाः सुगेहान्तरे
मत्तांभिर्महिलाभिरत्र विहरन्त्यामुक्तमुक्तास्रजः ॥ ते घोरास्थिधरा विराजदनडुद्वाहा विषाहारिणो . नर्तिष्यन्त्यवशाः स्मशाननिलया नीचैः पिशाचैः समम् ।। ८३ ॥
अथाह कृशानु:-यवस्येति । वयस्य भो मित्र "वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत्" इत्यमरः । एषा काशीनगर्यपि, अपिना गर्दा द्योत्यते । तव स्तवास्पदम् स्तुतिस्थानम् । किमिति प्रश्ने । इत्यापाततः। वस्तुतस्तु-एषा महामहिमवती काशी अपि तव स्तवास्पदं किम् ? तस्मात् त्वं धन्योऽसि ! तत्प्रभावस्य सामान्येन वक्तुमशक्यत्वादिति भावः ॥ २१ ॥
पश्येति । स्तुतियोग्यत्वमयोग्यत्वं वेत्यर्थः । तत्रतावत्प्रथमं काशीनिवासिनां पारमार्थिकफलं निरूपयति-य इति। अत्र काइयां ये जनाः मिष्टं षड्रसयुक्तभन्नं भुजते इति मिष्टान्नभुजः । तथा गजोत्तमा हस्तिश्रेष्ठाश्च हया अश्वाश्च तेषु आरोह आरोहणं येषां तथाभूताः । अश्वादिष्वारुह्य नगरे परिभ्रमन्त इत्यर्थः । किंच आमुक्ताः धृताः मुक्तास्रजो मुक्ताहारा यैस्ते तथा अपि च मुगेहान्तरे शोभनान्तःपुरे मत्ताभिः यौवन-रूपादिभिरित्यर्थात् । महिलाभिः स्त्रीभिः "श्री योषित्" इत्यारभ्य “वनिता महिला तथा" इत्यन्तोऽमरः । सह विहरन्ति क्रीडन्ति । एवं विषयासक्तचित्ता अपीति वास्तवोर्थः । प्रातीतिकस्तु एवं सुखिन इत्यर्थः । ते जनाः, परलोके इति शेषः । मुक्ताहाराणां स्थाने घोराणां भयंकराणामस्नां धरा धारकाः, तथा गजाश्वादिस्थाने विराजन् शोभमानः अनड्डान् वृषभो वाहो वाहनं येषां तादृशाः । “उक्षा भद्रो बलीवर्दो ऋषभो वृषभो वृषः । अनड्डान्" इत्यमरः । तथा मिष्टान्नस्थाने विषाहारिणो विषभोजिनः । अन्तःपुरस्थसुन्दरस्त्रीविलासस्थाने च स्मशानमेव निलयो गृहं येषां तथाभूताः स्मशाननिवासिनः सन्त इत्यर्थः । अवशाः उन्मत्ताः खतन्त्राश्च, नीचैः क्षुदैः, पिशाचैः ब्रह्मराक्षस-मारोच-वेतालादिभिः समं सह, नर्तिष्यन्ति नृत्यं करिष्यन्ति । एवं च अत्रत्यसुखिजनानामप्येवंविधदुःखोत्पादिकेयमिति रभसार्थः । वास्तवस्तु पूर्वोक्तप्रकारेण विषयासक्तत्वेऽपि केवलं काशीवासेनैव जनानां शंकरसारूप्यसंपादयित्रीत्यर्थः । विरोधालंकारः ॥ ८३ ॥
३ 'गजोद्धतहयारोहा:'.
१ किमरे वयस्यैषापि तव स्तव्यपदम्'. २ 'मृष्टान्न'. ४ 'स्वगेहान्तरे'. ५ 'सक्ताभिः'.
For Private And Personal Use Only