________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:-
[काशी
.
काशीमुद्दिश्य'दत्तं साधुमुदे यदेकमपि तत् क्षेत्रप्रभावाद्भवेत् __कामं कोटिगुणं भवान्तर' इति ख्यातं त्वयि त्वास्थैया ।। वासं प्राप्य मुहुर्बहूनि ददतो वासांसि जन्मान्तरे । ___लोका हन्त भजन्ति दिग्वसनतां हे काशि तुभ्यं नमः।। ८४ ॥ वाराणसि त्वयि सदैव सरोगभूमावारोग्यभूमिरिति काममलीकवादः॥ संतस्थुषां भवति यत्र वपुः सशूलं जन्मान्तरेऽपि जलभारवदुत्तमानम् ८५
एवं विश्वावसुमुक्त्वा काशीमुद्दिश्याह-दत्तमिति । हे काशि 'यत् यदि साधोः सत्पात्रस्य मुदे संतोषार्थ, एकमपि न त्वधिकं दत्तमर्पितं, तर्हि तत् क्षेत्रस्य अर्थात् त्वदन्यप्रयाग-पुष्करादेः प्रभावात् माहात्म्यात् , भवान्तरे अन्यजन्मनि 'कामं निश्चयेन कोटिगुणं दत्तापेक्षया कोटिसंख्ययाधिकं भवेत् संपद्येत' इति ख्यातं पुराणादौ प्रसिद्धम् ।त्वयि तु। वासं वसतिं प्राप्य कृत्वा, महुर्वारंवारं आस्थया अनेन दानेन जन्मान्तरे सुखिनो भवामः' इत्यादिरूपया, बहूनि वासांसि एतदुपलक्षणम् । तेन महावस्त्र-सुवर्णादीनीत्यर्थः । ददतः सत्पात्रेभ्यः समर्पयन्तः 'डुदाञ् दाने' इत्यस्मात् लटः शत्रादेशः । “नाभ्यस्ताच्छतुः" इत्यभ्यस्तत्वानुमभावः । ते लोकाः जन्मान्तरेऽन्यजन्मनि दिग्वसनतां दिगम्बरतां भजन्ति प्राप्नुवन्ति । अर्थात् वस्त्रहीना दरिद्रा भवन्तीति भावः । इति प्रातीतिकोऽर्थः । वास्तवस्तु दिग्वसनतां नाम शिवसारूप्यं प्राप्नुवन्तीति । तस्मात् तुभ्यं नमः। प्रातीतिके दूरत एव त्वां नमस्कुर्मः न तु त्वयि वासं कर्तुमिच्छाम इति । वास्तवे तु एवं शिवसारूप्यप्रदायै तुभ्यं नमः, त्वन्माहात्म्यस्य दुराकलनीयत्वात्केवलं नमाम एवेत्यर्थः । हन्तेत्यानन्दे विषादे वा ॥ ८४ ॥ __ काशीनिवासिनो जनास्तावद्दिगम्बरत्वं प्राप्नुवन्तीत्येतावदेव न, किंतु अन्यदपि प्राप्नुवन्तीत्याह-वारणसीति । हे वाराणसि काशि, “अम्बार्थ-नद्यो-" इति वाराणसीशब्दस्य संबुद्धौ ह्रस्वत्वम् । सदैव संततमेव रोगेण शीतादिना सहिता सरोगा तादृशी भूमिः यस्यां तस्याम् । वस्तुतस्तु सरः गङ्गाप्रवाहरूपं गच्छति प्राप्नोतोति सरोगा तथाभूता भूमिर्यस्यामित्यर्थः । तस्यां त्वयि आरोग्येण रोगराहित्येन युक्ता भूमिः इति कामं अत्यन्तं निश्चयेनेति यावत् । अलीकवादः असत्यवचनमित्यर्थः । “अलीकं त्वप्रियेऽनृते' इत्यमरः । वास्तवस्तु अः विष्णुर्बिन्दुमाधवरूपः "अकारो वासुदेवः स्यात्" इत्येकाक्षरः । रेण नेत्राग्निना युक्तः उः शिवः अर्थात् विश्वेश्वरः तौ अरौ, "रश्च कामेऽनिले वहौ” इति, “उकारः शंकरः प्रोक्तः" इति चैकाक्षरः तौ गच्छतीति अरोगा तस्याः भावः आरोग्यं तेन युक्ता भूमिरिति अलीकवादः किमिति काकुः। अपि तु नैवालीक इत्यर्थः। तथाहि-यत्र त्वयि संतस्थुषां स्थिता
१ 'अन्यच्च'. २ 'त्वयीत्याख्यया'. ३ 'भूरिति निकाम'. ४ 'जडभाववत्'. 'जलभाववत्'.
For Private And Personal Use Only