________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ७]
पदार्थचन्द्रिकाटीकासहिता ।
विश्वावसुः-अनिपुणधिषण गुणमपि किमिति दोषीकरोषि ? यदेतन्नगरवासिना भोगिनाऽपि योगिनोमप्राप्यं शिवसारूप्यमाप्यते २२
अत्र देहमपवित्रमपास्यन्नच्छमृच्छति वपुः किल यस्य ॥ लोचने शुचिरवाप्तनिटाले मस्तके हरिपदाम्बु जटाले ॥ ८६ ॥ अदःपुरवासिनामन्याप्येषा धन्यता ॥ २३ ॥
नां, संपूर्वकात् 'टा गतिनिवृत्तौ' इत्यस्माद्धातोभूतसामान्य विवक्षायां लिटि "क्कसुश्च" इति च कसौ "वसोः संप्रसारणम्” इत्यामि संप्रसारणम् । वपुः शरीरं, जन्मान्तरे. ऽन्यजन्मन्यपि किमुतास्मिन् जन्मनि। शूलेन शूलरोगेण पक्षे शूलायुधेन सहितं भवति । उत्तमाझं मस्तकं च जलभारवत् शैत्यरोगयुक्तं, पक्षे जलस्य गङ्गाजलस्य भारेण युक्तं भवतीति । एवं च सर्वथा शिवसारूप्यमेव प्राप्नोतीति भावः । इति वास्तवोऽर्थः । अत्रापि व्याजस्तुतिरलंकारः ॥ ८५॥ .
एवं कृशानुप्रोक्तमर्थ दूषणपरतयैव संगृह्याह विश्वावसुः-अनिपुणेति । अनिपुणा सदसद्विवेकविधुरा धिषणा बुद्धिर्यस्य तत्संबोधने हे अनिपुणधिषण मन्द. बुद्धे, वाराणस्या इति शेषः । गुणमपि किमिति कस्माद्धेतोरित्यर्थः । दोषीकरोषि दूषणयुक्तमिव करोषीत्यर्थः । यत् यस्मात्कारणात् एतनगरवासिना काशीपुरनिवासिना, भोगिना स्यादिविषयभोगवतापि किमुत वैराग्यादियुतेन जनेन, योगिनां यमनियमासनाद्यष्टाङ्गयोगयुक्तानामपि अप्राप्यं प्राप्नुमशक्यं, शिवस्य विश्वेश्वरस्य सरूपस्य तुल्यरूपस्य भावः सारूप्यं शिवसमानरूपतेत्यर्थः । आप्यते प्राप्यते ॥ २२॥
शिवसारूप्यमेवोपपादयति-अत्रेति । अत्र काश्यां, जन इति शेषः । अपवित्रं विषयासक्त्यादिना मलमूत्रादिसंबन्धेन वा अपवित्रं देहं अपास्यन् त्यजन् सन् , अच्छं खच्छं पवित्र मिति यावत् । वपुः शरीरं ऋच्छति प्राप्नोति । किलेति निश्चये । यस्य शरीरस्य अवाप्तं प्राप्तं निटालं भालं येन तथाभूते भालदेशस्थिते इत्यर्थः । लोचने नेत्रे शुचिरग्निः । अस्तीति शेषः । “अग्निवैश्वानरः-" इत्यतः "शुचिरप्पित्तम्-" इत्यन्तोऽमरः । जटां लाति धारयतीति जटालं तस्मिन् जटायुक्ते इत्यर्थः । मस्तके शिरसि हरिपदाम्बु विष्णुचरणसंवन्धि उदकं, अर्थात् गङ्गोदकं, वर्तते इति शेषः । 'अपास्यन्' 'ऋच्छति' इति च वर्तमानकालनिर्देशेन शरीरत्यागक्षणे एवोक्तविधं शिवसारूप्यं प्रतीयते ॥ ८६ ॥
नैतावदेव अन्यदपि तन्महित्वमाह-अद इति । अदःपुरनिवासिनां अमुमिन् पुरे काश्यां निवसन्तीति तथाभूतानां, अन्या पूर्वोक्तसारूप्यप्राप्तेरितरा, एषा वक्ष्यमाणरूपा धन्यता महत्त्वम् , अस्तीति शेषः ॥ २३ ॥
१ गुणोदयामपि किमिति', 'गुणान् किमिति'. २ योगिनां प्राप्य', 'योगिनामप्यप्राप्यं'.
For Private And Personal Use Only