________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
विश्वगुणादर्शचम्पू:- [काशीप्रदोषवत्प्राप्त इह प्रदोषनटोऽन्धकारिव्यपदेशमेति'। प्रकाशयत्येष हि तारकोद्यद्वर्णान्नृणां कर्णनभःप्रदेशे ॥ ८७ ॥
इति गङ्गातीरजनपदं कृत्स्नमवेक्ष्य साञ्जलिबन्धम्प्रातः प्रातर्जाह्नवीवारि भक्त्या गाहं गाहं कुप्तैनित्यक्रियेभ्यः ॥ पुष्पैराद्यं पूरुषं पूजयन्यः पूतात्मभ्यो भूसुरेभ्यो नमोऽस्तु ॥ ८८ ॥ का सा धन्यतेत्याकाङ्क्षायामाह-प्रदोषवदिति । इह काश्यां प्रदोषवत् रजनीमुखवत् सायंकालवदिति यावत् । प्रदोषो रजनीमुखम्" इत्यमरः । प्रदोषे सायंकाले नटति नृत्यतीति प्रदोषनटः एषः शिवः प्राप्तः अन्धकस्य एतन्नाम्नः कस्यचि. इत्यस्य अरिः शत्रुः। पक्षे अन्धकारः ध्वान्तं अस्मिन्नस्तीति अन्धकारी।मत्वर्थीय इनिः। इति व्यपदेशं शब्दं अभिधानमिति यावत् । एति प्राप्नोति । अपि च नृणां मानां देहावसाने इति शेषः । कर्णनभःप्रदेशे श्रोत्रान्तर्गताकाशदेशे, पक्षे किरति सर्वत्र प्रसरति व्याप्नोतीति यावत् । कर्णः व्यापकः, उभयत्रापि "कृ-व-जसि" इत्यागुणादिसूत्रेण युप्रत्ययः । तस्य बाहुलकात् केवलो नकारादेशश्च । स चासो नभःप्रदेशः आकाशदेशः तस्मिन् , तारयति जन्म-जरा-मरणादिदुःखेभ्य इति तारः स एव तारकः खार्थे कः । तस्मिन् उद्यन्तः उपदेशरूपेण प्रकटीभवन्तः वर्णाः अकारोकारमकाररूपास्तान् । “वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्ण तु वाक्षरे" इत्यमरः । पक्षे तारकाभ्यो नक्षत्रेभ्यः उद्यन्तः वर्णाः प्रभारूपास्तान् , प्रकाशयति उपदेशरूपेण कथयति पक्षे प्रकटयति च । केचित्त तारकशब्देन राममन्त्रं गृह्णन्ति, तत्तु वैष्णव-राजानुजी. यादिमतानुसारेण योजनीयम् । अस्यापि श्रीरामायणे शिववाक्यं प्रमाणभूतम् । यथा "अहो भवन्नाम जपन् कृतार्थो वसामि काश्यामनिशं भवान्या। मुमूर्षमाणस्य विमुतयेऽहं दिशामि मन्त्रं तव राम नाम" इति । काशीखण्डेऽपि-"पेयं पेयं श्रवणपुटकै रामनामाभिरामं ध्येयं ध्येयं मनसि सततं तारकं ब्रह्मरूपम् । जल्पन् जल्पन् प्रकृतिविकृतौ प्राणिनां कर्णमूले वीथ्यां वीथ्यामटति जटिलः कोपि काशीनिवासी" इति च ॥ ८७ ॥ __ इतीति । इत्येवमुक्त्वा गङ्गातीरजनपदं भागीरथीतीरस्थदेशं, कृत्स्नं सर्व "अथ समं सर्वम् । विश्वमशेषं कृत्स्नं" इत्यमरः । अवेक्ष्य दृष्ट्वा, अञ्जलिबन्धेन करसंपुटेन सहितं साञ्जलिबन्धं यथा तथा । आहेति शेषः ।
प्रातः प्रातरिति । प्रातः प्रातः प्रतिप्रातःकाले "नित्यवीप्सयोः” इति निसार्थे द्वित्वम् । जान्हवीवारि गङ्गोदकं भक्त्या आदरेण गाहं गाहं स्नात्वा स्नाला 'गाहू विलोडने' इत्यस्मात् आभीक्ष्ण्ये णमुल् । कृप्ताः कृताः आचरिता इति यावत् । नित्याः अकरणे प्रत्यवायसाधकाः क्रियाः सन्ध्यादिकाः यैस्तेभ्यः, तथा आद्यं सृष्टेरपि पूर्व वर्तमानं पूरुषं शंकरं विश्वनाथमित्यर्थः । पूजयङ्ग्यः अर्चयञ्यः, अत एव पूतः पवित्रः आत्मा चित्तं येषां तथाभूतेभ्यः । “पवित्रः प्रयतः पूतः" इत्यमरः । “आत्मा १ 'व्यपदेशमन्ते'. २ 'प्राप्तनित्यक्रियेभ्यः'.
For Private And Personal Use Only