________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ६] पदार्थचन्द्रिकाटीकासहिता।
कृ०-किमेतद्देशवासिनोऽपि ब्राह्मणाः केवलं कलिमाहात्म्याकलितशास्त्रीयचर्याविपर्यया भवता नमस्क्रियन्ते ? पश्य तावत् प्रायेणास्य काशीदेशजनस्य सुचर्याविपर्यासम् ॥ २४ ॥
शस्त्रैर्जीवति शास्त्रमुज्झति परं शूद्राहृतैरम्बुभिः । ___ स्नात्यांचामति देवताः सपयति खैरं पचत्योदनम् ॥ उच्छिष्टान्न बिभेति याति यवनैरुच्चावचैः सङ्गतिं मातङ्गान्निकटं गतानगणयन् मार्गान् मुहुर्गाहते ॥ ८९ ॥
कलेवरे यत्ने स्वभावे परमात्मनि। चित्ते धृतौ च" इति च धरणिः । भूसुरेभ्यः ब्राह्मणेभ्यः नमः अस्तु ॥ ८८ ॥
ब्राह्मणस्तुतिमसहमान आह कृशानुः-किमिति।एतद्देशवासिनःगङ्गातीरानवासिनः केवलं भृशं कलिमाहात्म्यात् कलियुगप्रभावात् आकलितः खीकृतः शास्त्रीयायाः श्रुति-स्मृतिविहितायाः चर्यायाः आचारस्य विपर्ययो वैपरीत्यं यैस्तथाभूताः, अर्थात् विहितमकुर्वन्तः प्रतिषिद्धं कुर्वन्तश्च, तेऽपि ब्राह्मणाः भवता नमस्क्रियन्ते किम् ? आश्चर्यमिदमिति भावः । कुत एतदिति चेत् प्रत्यक्षमेव पश्येत्याह-पश्य तावदिति। अस्य काशीदेशजनस्य प्रायेण सुचर्याविपर्यासं खाचारवैपरीत्यं पश्य तावत् । इदानीमेव मया कथ्यमानमवधारयेत्यर्थः । प्रायेणेत्यनेन शास्त्रविहिताचरणस्य क्वाचित्कं सूचितम् ॥ २४ ॥
तदेवाह शस्त्रैरिति । काशीनिवासब्राह्मण इति शेषः । अत्र सर्वत्र जातावेकवचनम् । शस्त्रैः आयुधधारणैः, जीवति उपजीविकां करोति । ब्राह्मणस्यापत्कालं विना शस्त्रग्रहणनिषेधादेतदयुक्तमिति भावः । तथा परंखधर्मभूतत्वादुत्कृष्टं, शास्त्रं वेदाध्ययनादिकं उज्झति त्यजति । अपि च शूद्राहृतः शूद्रेणानीतैः अम्बुभिः उदकैः, स्नाति स्नानं करोति, आचामति आचमनं करोति, देवताः देवानपि नपयति अभिषिञ्चति, किंच खैरं यथा तथा ओदनमन्नमपि पचति । एतत्तु अतीवावद्यमिति भावः। तथा उच्छिटात् उच्छिष्टभक्षणात् न बिभेति । तदपि भक्षयतीत्यर्थः । उच्चावचैः अनेकविधैः य. वनैः नीचम्लेच्छादिजातीयैर्जनैः सह संगति सहवासं तैः सह स्पर्शनभाषणादिकं, याति प्राप्नोति, करोतीति यावत् । नैतावदेव, किंतु निकटं गतान् समीपं प्राप्तानपि "समीपे निकटासन्न-" इत्यमरः । मातङ्गान् चाण्डालान् "चाण्डाल-प्लव-मातङ्ग-दिवाकीर्ति-जनंगमाः" इत्यमरः । अगणयन् तेषां स्पर्शास्पर्शविचारमकुर्वन्, मुहुर्वारंवारं मार्गान् गाहते मार्गेषु इतस्ततो भ्रमतीत्यर्थः । एवं चैतत्सर्वं ब्राह्मणाचारविरुद्धमित्यर्थः॥८९॥
१ लात्वा'. २ निकटागताम्'.
For Private And Personal Use Only