________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६०
विश्वगुणादर्शचम्पू:
किंच
प्रातर्हन्त कृताप्लवोऽपि रजकस्पृष्टान् जडो रासभैरूढान् धारयते पटाननुदिनं धृत्वा बहिर्गच्छति ॥ गत्वा म्लेच्छमुखाशुचीन् स्पृशति च स्पृष्ट्रापि न स्वात्यहो स्नातोऽप्यथ भुत एष चपलो भुक्त्वापि न व्रीडति ॥ ९० ॥
[ काशी
अपि च-नीचैर्दुर्यवनैः शुनीभिरपि वा निःशङ्कमालोकितं भुङ्क्ते पतिविदूषकैः सह नरैरज्ञातवेदाक्षरैः ॥ मद्याखादनमत्तचित्तजनतामोहाय भीहानित:
कर्माण्यारभते श्रुति स्मृतिवचोदूराण्यसाराण्यैहो ॥ ९१ ॥
नन्वयं जनः प्रातः स्नानं करोति तेन सर्वदोषक्षपणं भवतीति चेत्तत्राह - प्रातरिति । किंच अयं जनः प्राप्तः प्रातःकाले कृतः आलवः गङ्गास्नानं येन तथाभूतोSपि "समे आप्लाव आप्लवः । स्नानं" इत्यमरः । रजस्पृष्टान् रजकेन कृतस्पर्शान् प्रक्षालितानिति यावत् । किंच रासभैर्गर्दभैः ऊढान् धृतान् गर्दभवाहितानित्यर्थः । पटान् वस्त्राणि अनुदिनं प्रतिदिनं, न त्वेकदिनमपि धारयते । नत्वेतावदेव । अपि तु धृत्वा बहिर्भ्रमणार्थमित्यर्थः। कार्यार्थे वा गच्छति । गत्वा च म्लेच्छमुखाशुचीन् म्लेच्छ-यवनप्रमुखान् अपवित्रजनान् स्पृशति । स्पृशतु नाम कार्यार्थ का वा हानिरिति चेत्तत्राह-स्पृष्ट्रापि न स्नाति स्नानमपि न कुरुते । अत एव जड: मूर्खः, चपल: चाञ्चल्ययुक्तश्च एषः नस्नातोsपि, अत्र नशब्दस्य "सह सुपा" इति समासः । नैकधेत्यादिवत् । अथ भु भोजनं करोति । भुक्त्वापि च न व्रीडति न लज्जते । अत्र रजकस्पृष्ट - रासभोढपटधारण - बहिर्गमनाद्यनेकलज्जाकारणसत्त्वेऽपि लज्जारूपकार्यस्यावर्णनाद्विशेषोक्तिरलंकारः । “विशेषोक्तिरखण्डेषु कारणेषु फलावचः" इति तलक्षणात् ॥ ९० ॥
नन्वेते राजाधिकारिणस्तस्माद्राजकार्यव्यापृतत्वान्न तेषां स्वकर्मकरणेऽवकाशः परं तु ये केचित्तदधिकाररहितास्ते तु स्वकर्म कुर्वन्त्येवेति चेत्तत्राह - अपि च नीचैरित्यादि । अत्रत्यजन इति शेषः । नीचैः हीनजातीयैः दुर्यवनैः दुष्टम्लेच्छैः, तथा शुनीभिः श्व स्त्रीभिरपि वा आलोकितमवलोकितं, अन्नादिकमिति शेषः । नैतावदेव, अपि तु अज्ञात वेदस्य अक्षरमपि किमुत मन्त्रादिकं यैस्तैः, अत एव मद्यपान - मांसाशनादिशास्त्रनिषिद्धकर्माचरणात् पङ्किविदूषकैः पङ्गिवायैर्नरैः सह नि:शङ्कं कस्यापि लोक-शास्त्रादेः शङ्कारहितं यथा स्यात्तथा भुङ्क्ते । भोज्यान्नं चाण्डालादिभिर्न द्रष्टव्यमिति हि धर्मशास्त्रम् । तदाह मनु:-- “ चाण्डालश्च वराहश्च कुक्कुट : श्वा तथैव च ॥ रजखला च षण्टश्च नेक्षेरन्नश्नतो द्विजान् " इति । दृष्टे किं भवति
:
१ 'वेदाक्षर : '. २ ' हानतः ' ३. असाराणि च .
For Private And Personal Use Only