________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ७]
पदार्थचन्द्रिकाटीकासहिता ।
अपि च-- कन्यां कामप्युदूह्य प्रविजहदुदयद्यौवनामज्ञ एनां
द्रव्याशापाशकृष्टो भ्रमति चिरतरं हन्त देशान्तरेषु ॥ अन्योन्याश्लेषवाञ्छाविगलितवयसोरात्तमालिन्यमत्यो
दम्पत्योाकृतैवं हतविधिरुभयोर्लोकयोः शोकयोगम् ॥ ९२ ॥ अपि च
नाऽधीतेऽत्र जनो यदि कश्चिदधीते शते सहस्र वा ॥ तदाह-"घ्राणेन सूकरो हन्ति पक्षवातेन कुक्कुटः । श्वा तु दृष्टिनिपातेन स्पर्शनावरवर्णजः" इति । किं च नैतावदेव कृखा स उपरमति, किं तु मद्यस्य मदिरायाः आस्वादनेन पानेन मत्तं विवेकशून्यं चित्तं यस्यास्तश्राभूतायाः जनतायाः जनसमूहस्य मोहाय 'किमयं ब्राह्मणः कर्मठः, योग्योऽयं, अस्मै एव दानादिकं देयम्' इति मोहोत्पादनं कर्तु, अत्र “क्रियार्थोपपदस्य च कर्मणि स्थानिनः" इति चतुर्थी । भीहानितः ऐहलौकिक-पारलौकिकभयं संत्यज्य, "ल्यब्लोपे कर्मण्यधि-" इति पञ्चमी । तस्याश्च तसिलू । श्रुति-स्मृतिवचोदूराणि वेदशास्त्राभ्यामविहितानि तत्र निषिद्धानीति वा । अत एव असाराणि तुच्छानि फलरहितानीति यावत् । कर्माणि आरभते करोति आचरतीत्यर्थः । अहो इत्याश्चर्ये ॥ ९१॥
अपि चेति । अन्यदपि निन्द्यं कर्म शृण्वित्याह
कन्यामिति । अज्ञः शास्त्रविधिमजानन् अत एव कामपि या काचित् खमनसे रोचेत तामित्यर्थः । न तु कुलशीलसंपन्नाम् । कन्यां उदूह्य विवाह्य, अथ च उदयत् उत्पद्यमानं यौवनं तारुण्यं यस्यां तथाभूतां एनां कन्यां, अन्वादेशत्वात् “द्वितीयाटौस्वेनः" इत्येनादेशः । प्रविजहत् गृहे एव त्यजन् सन् , द्रव्याशापाशकृष्टः द्रव्यसंपादनेच्छापरवश: सन्नित्यर्थः । देशान्तरेषु, परदेशेषु चिरतरं अतिचिरकालपर्यन्तं भ्रमति अटति । हन्तेति खेदे । भ्रमतु नाम देशान्तरेषु, ततः पुनर्निवृत्तौ भवेदेवोभयोः संगम इति चेत्तत्राह-अन्योन्येति । अन्योन्यस्य परस्परस्य य आश्लेषः आलिङ्गनं तस्य वाञ्छयैव न तु उपभोगेन, विगलितं नष्टं वयस्तारुण्यं ययोस्तयोः । अत एव आत्तं प्राप्तं मालिन्य कामाद्युपभोगराहित्यं यस्याः तथाभूता मतिर्बुद्धिर्ययोस्तयोर्दम्पत्योः स्त्रीपुरुषयोः “दम्पती जम्पती जायापती भार्यापती च तौ" इत्यमरः । एवमुक्तप्रकारेण, हतविधिः दुष्टदैवं कर्तृ, “विधिविधाने दैवेऽपि" इत्यमरः । उभयोर्लोकयोः इहलोके संगमाभावात् परलोके च अकर्मकरणात् , शोकयोगं शोकसम्बन्ध व्याकृत अकरोत् । 'डुकृञ् करणे' इत्यस्मात् कर्तरि लुङ् "ह्रखादङ्गात्" इति सिचो लुक् । 'व्यादित' इति पाठे 'दम्पत्योः' इति षष्ठी प्रामादिकी ॥ १२॥
अपि च-नेति । अत्र अस्मिन् देशे कोऽपि जनः नाधीते वेदशास्त्राद्यध्ययनं १ व्यादितैवम्'.
For Private And Personal Use Only