________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२
विश्वगुणादर्शचम्पू:- [काशीदुस्तकेंषु श्राम्यति दूरीकुरुते श्रुति-स्मृतिसुतर्कान् ।। ९३ ॥ वि०-कष्टमरे ब्राह्मणनिन्दां शृण्वतः कम्पते मे हृदयम् । यस्त्वयोपन्यस्तः सच्चर्याविपर्ययः स एष कलेरेव दोषो न ब्राह्मणानाम् । कलौ युगे कार्तयुगं चारित्रं कुत्रे नाम संभाव्यते ? दुरितलतिकोपन्नात्मा दुर्जयः खलु कलिः ॥ २५ ॥ पश्य
हर्म्यस्थानमधर्मकर्मविततेर्तुर्मानधूर्मासनम् __ शास्त्रस्तोमललाट लिपिलयः शान्तिः सवानामपि । सर्वाम्नायवचस्समापनदिनं संस्था सद_विधे
राशाजनिभूरभूदिह महानवहोऽयं कलिः ॥ ९४ ॥ न करोति, यदि कश्चित् एकः कोऽपि शते सहस्रे वा, अधोते अध्ययनं करोति चेत् , तदा सः दुस्तर्केषु युक्तिश्रुतिविरुद्धतर्कोपहतेषु चार्वाक-गौतमादिप्रणीतशास्त्रेषु,श्राम्यति परिश्रमं करोति । अपि च श्रुतिस्मृतिसुतर्कान् उपनिषद्-व्याससूत्र-मनुस्मृत्यायुक्तजीवात्मपरमात्माभेदप्रतिपादकसत्तान्, दूरीकुरुते नाधीते । एवं च सर्वेऽपि वेदशास्त्रपराङ्मुखा एवेत्यर्थः ॥ ९३ ॥
एवं कृशानुप्रतिपादितं दूषणपरं भाषणं श्रुत्वा कष्टयुक्तः प्राह विश्वावसुःकष्टमिति । अरे भोः कृशानो ! कष्टम् । एतद्दुःखप्रद्योतकमव्ययम् । ब्राह्मणानां निन्दां शृण्वतः आकर्णयतः, मे मम हृदयं कम्पते । कुतः । त्वयोपन्यस्तः 'शस्त्रैर्जीवति शास्त्रमुज्झति' इत्यादिवाक्यैः प्रतिपादितः यः सच्चर्याविपर्ययः सच्छास्त्रवैपरीत्यं, स एष कले: कामाद्यासक्तस्य कलियुगस्यैव दोषः, न ब्राह्मणानाम् । कुतः । अस्मिन् कलौ युगे, कृतयुगे भवं कार्तयुगं 'तत्र भवः' इत्यर्थेऽण् । चारित्रं आचरणं कुत्र नाम केन कारणेन संभाव्यते? नैव संभाव्येतेत्यर्थः । यतः दरितं पापं तद्रूपा या लतिका तस्या उपन्न आश्रयभूतः आत्मा यस्य तथाभूतः । “स्यादुपनोन्तिकाश्रयः" इत्यमरः । कलिर्दुर्जयः खलु । निश्चयेन जेतुमशक्यः ॥ २५॥ __ दुर्जयत्वमेवोपपादयति-हम्येति । अयं कलिः एतत् कलियुगं, महतः अनर्थान् वक्ष्यमाणरूपान् आवहति संपादयतीति तथाभूतः अभूत् प्रादुर्बभूव । के ते अनर्था इत्याकालायामाह-धर्मः पुण्यं तद्विरुद्धः अधर्मः पापं"धर्माः पुण्य-यम-न्याय-खभावाचार सोमपाः" इत्यमरः । तजनकानि यानि कर्माणि परधनहरण-परस्त्रीगमन-मद्यपानादीनि तेषां विततेः परंपरायाः हर्म्यस्थानं निवासगृहं तथा दुर्मानधर्मासनं दुर्मानस्य दुरभिमानस्य गर्वस्येति यावत् । धर्मासनं धर्मपीठं, अथवा दुर्मानस्य ये धर्माः परपैशून्यपराधिक्षेपादयस्तेषामासनमिति वा । शास्त्रस्तोमस्य शास्त्रसमूहस्य ललाटभूलिपेः
१ सुचर्याविपर्यासः'. २ 'कुतो नाम'. ३ 'उपनायितात्मा'. ४ 'भर्मासन'. ५'दुलिपिचयः'.
For Private And Personal Use Only