________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४ विश्वगुणादर्शचम्पू:- [श्रीमदेकानेश्वर
किं च___ एष विरुद्धधर्मा कृत्तिवासाः कुतः स्तोतव्यः ? ॥ १३६ ॥ शृणु तावत्धत्ते महो मूर्ध्नि तदौषधीशमौषर्बुध भालतलेऽङ्गकेषु ॥ . फणीन्द्रमौलिस्थमणि प्रसूतं हरोऽधकारित्वमथाप्युपैति ॥ ३३० ॥ अपि चतारकारि वहन्नके मस्तके तारकाधिपम् ॥ अङ्गीकुर्वन्सुदृशमप्यलीकाक्षो विभात्ययम् ॥ ३३१ ॥ विश्वावसुः-किमेभिः शब्दश्लेषैकशरणैर्दूषणैरस्य खलु मृत्युंजयस्य विश्वस्तुत्यमसदृशं वदान्यत्वम् ॥ १३७ ॥
नैतावदेव, किंतु परस्परविरुद्धधर्मवस्तुपरिग्रहत्वमपि तस्मिन्नाह-एष इति । एष शिवः विरुद्धधर्मा विरुद्धाचरणशीलः कृत्तिवासाः चर्मवस्त्रः कुतः स्तोतव्यः॥१३६॥
तदेवोपपादयति-धत्त इति । हरः मूर्ध्नि मस्तके तत् प्रसिद्धं ओषधीश चन्द्रसंबन्धि महस्तेजो धत्ते धारयति, भालतले कपालस्थलोचने इत्यर्थः । उषर्बुधस्य अग्नेः इदं औषर्बु, अग्निसंबन्धीत्यर्थः । “बर्हिः शुष्मा कृष्णवा शोचिष्केश उषर्बुधः।" इत्यग्निनामखमरः । तेजो धत्ते, शीतत्वप्राप्त्यर्थं चन्द्रधारणे कृते पुनरुष्णधर्माग्निधारणं विरुद्धमिति भावः । एवमग्रेऽपि यथायथमूह्यम् । तथा अङ्गान्येवाङ्गकानि तेषु सर्वावयवेष्वित्यर्थः । फणीन्द्रस्य शेषस्य मौलिस्थमणे: प्रसूतं उत्पन्न महः धत्ते । तथापि अन्धकारः ध्वान्तं अस्यास्तीत्यन्धकारी तस्य भावः अन्धकारित्वं, पक्षे अन्धको नाम दैत्यः तस्य अरित्वं शत्रुत्वं च उपैति प्राप्नोति ॥ ३३०॥
अन्यदपि तारकारिमिति । अङ्के उत्सङ्गे "उत्सङ्ग-चिह्नयोरङ्कः” इत्यमरः। तारकारिं तारकासुरस्य शत्रु स्कन्द, मस्तके च तारकस्य, तारकाणां नक्षत्राणां च अधिपं चन्द्रं च वहन्धारयन् , तथा सुदृशं शोभनां दृष्टिं, सुलु शोभने दृशौ लोचने यस्याः सा तां पार्वती च, अङ्गीकुर्वन् खीकुर्वन् वामभागेऽर्धाङ्गीकुर्वन्नित्यपि च, अलीके ललाटे अप्रियस्थले च "अलीकमप्रियेऽपि स्याद्गोध्यससे नपुंसकम् ।” इति मेदिनी । “ललाटमलिकं गोधिः" इत्यमरश्च । अक्षि नेत्रं यस्य सः अयं शिवः विभाति विरुद्ध प्रकाशते, विशेषेण दीप्यते इति चापि ॥ ३३१॥ ... पुनः समाधत्ते-किमिति । एभिः शब्दश्लेषैकशरणैः शब्दश्लेषकावलम्बैः दूषणैर्दोषैः किम् ? किंतु अस्य प्रसिद्धस्य मृत्युंजयस्य शिवस्य वदान्यत्वं दातृत्वं विश्वस्तुत्यं सर्वैरपि स्तोतुं योग्यं, अत एव असदृशं अन्यादृशं अनन्यसाधारणमिति यावत् । अस्तीति शेषः । खलु निश्चयेन ॥ १३७ ॥
१ 'जड'. २ 'दोषैरस्य'.
३ 'अन्यादृशं'.
For Private And Personal Use Only